Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 17
________________ अनुसंधान-२६ नेत्रमीक्षणं चक्षुरक्षिणी" इत्यमरः । विस्तरणं विस्तारः । प्रकामं विस्तारः प्रकामविस्तारः । प्रकामविस्तारस्याऽत्यन्तविशालतायाः फलं- प्रयोजनं प्रकामविस्तारफलम् । आपुः-लेभिरे ॥ वाच्यपरिवर्तनम् - धनुर्भृतोऽप्यस्य दयाभावं (हरिणीनां) विशङ्करन्त:करणैः आख्यातं (अस्य) वपुर्विलोकयन्तीभिर्हरिणीभिरक्ष्णां प्रकामविस्तारफलमापे ॥ धनुर्धारिणमपि तमायान्तं विलोक्य हरिणीनां भयक्षान्तिसम्भावनायामपि भयाभावप्रयुक्तनिर्मलैरन्तःकरणैः राज्ञो दिलीपस्याऽन्तरात्मा हिंसालेशरहितसर्वजीवविषयदयाद्रवीभूत इति ज्ञातम् । तेन च नृपस्य दयाभावं परममनोहरं वपुः निर्भयात् बहुकालं निर्भरं ददृशुः, तेन च स्वनेत्राणामत्यन्तविशालतायाः फलमापुः । “विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुञ्चे"ति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धा ददृशुः, इति सरलार्थः ॥११॥ स कीचकैर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥१२॥ स कीचकैरिति । सः दिलीपः । मारुतेन पूर्णानि रन्ध्राणि येषां ते मारुतपूर्णरन्ध्राः, तैः मारुतपूर्णरन्धैः-वायुपूरितछिट्टैः । “छिद्रं निर्व्यथनं रोकं रन्धं श्वभ्रं वपा शुषिः" इत्यमरः । अत एव कूजन्तीति कूजन्तः, (तैः) कूजद्भिःस्वनद्भिः । कीचकैः वेणुविशेषैः । “वेणव: कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः" इत्यमरवचनात् कीचकशब्देनैव मारुतपूर्णरन्ध्रत्वस्य सिद्धौ मारुतपूर्णरन्धैरिति विशेषणं किमर्थमिति चेत्, विशिष्टवाचकानां पदानां सति विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम् इति ज्ञापनार्थम् । वंश: शुषिरवाद्यविशेषः । “वंशादिकं तु शुषिरम्" इत्यमरः । वंशस्य कृत्यं वंशकृत्यम् । आपाद्यते स्मेति आपादितम् । आपादितं वंशकृत्यं यस्मिन् कर्मणि यथा स्यात्तथाऽऽपादितवंशकृत्यम्-संपादितशुधिरकार्यम् । कुलेषु लतागृहेषु । “निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे" इत्यमरः । वनस्य १. अम० द्वि० मनुष्यवर्गे - १२५९ । २. अम० प्र० पातालभोगिवर्गे - ४४१ । ३. अम० द्वि० वनौषधिवर्गे - ९७१ । ४. अम० प्र० नाट्यवर्गे - ३७० । ५. अम० द्वि० शैलवर्ग - ६४९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93