Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-२६ ऊनं-दुर्बलम् हरिणादिकम् । न बबाधे-न पीडयामास ॥
वाच्यपरिवर्तनं त्वेवम्- गोप्तरि तस्मिन् (सति) वनं गाहमाने (सति) दवाग्निना वृष्ट्या विनाऽपि शेमे । फलपुष्पवृद्ध्या विशेषया अभूयत । सत्त्वेषु अधिकेन ऊनं न बबाधे ।।
__ अहो ! अलौकिक: प्रभावस्तस्य राजर्षेर्यस्मिन् प्रविष्टमात्र एव तस्मिन् महावने वृष्ट्या विनाऽपि वनाग्निः शशाम, वृक्षलतादयोऽपि प्रभूतया फलपुष्पलक्ष्म्या चकासिरे, प्रबलाश्च जीवा निर्बलहिंसनात् विरेमुः । सबलो वन्यजन्तुर्दुर्बलं न बाधते स्म, इति सरलार्थः ।।१४।।
सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥१५॥
सञ्चारेति । पल्यते सम्पदा इति 'पल्(ल्ल)-गता'विति भ्वादिगणधातोः क्विपि पल, लूयते इति 'लू[गश्] छेदने' इति क्यादिगणधातोः कर्मणि अपि लवः, पल् चाऽसौ लवश्च पल्लवः । “पल्लवोऽस्त्री किसलयम्" इत्यमरः । अभिनव: पत्रविस्तारः । "रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु" इति शाश्वतः । अत्र रज्यतेऽनेनेति करणे 'घनि' । 'घजि भावकरणे' (४।२।५२॥) इति 'श्रीसिव्हेश०' सूत्रेण 'घञ्च (घजि च) भावकरणयोः' [६।४।२७||] इति 'पाणिनीय' सूत्रेण च न लुपि राग:-वर्णविशेषः । आध्यात्मिकविचारे तु विषयेषु इमे शोभना इत्यध्यासेन 'रञ्जनस्वरूपाऽभिनिवेशात्मिका या चित्तवृत्तिः । सा रागः' पल्लवस्य राग: पल्लवरागः । ताम्यतीति इच्छार्थकदिवादिगणीय'तम्'धातोः अकि दीर्घ ताम्रा । पल्लवराग इव ताम्रा पल्लवरागताम्रा ।
___पतन् सन् गच्छतीति पतङ्गः, अथवा पततौ इति भ्वादिक्षुरादिश्च पतृ ऐश्ये च दिवादिः । अत्र पततीति भ्वादिपत्धातोः अङ्गचि पतङ्गः , तस्य पतङ्गस्य-सूर्यस्य । "पतङ्गः पक्षिसूर्ययोः" इति शाश्वतः । “पतङ्गः सूर्ये शलभे खगे शालिभेदे मधूकवृक्षे च" । प्रकर्षेण भातीति प्रभा-कान्ति: । मन्यते जगतस्त्रिकालावस्थामिति, मननशीलो वा मुनिः, तस्य मुनेः धेनुः । च । दिशामन्तराणितानि दिगन्तराणि-दिगवकाशान् । “अन्तरमवकाशावधि१. अम० द्वि० बनौषधिवर्गे - ६७७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93