Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ अनुसंधान-२६ 'ट्धे-पाने' 'पाणि०' मते च 'धेट्-पाने' इति धातोः धयति तामिति धेनुः । यद्वाऽन्तर्भावितण्यर्थत्वे धयति सुतानिति धेनुरित्यपि संभवति । धेनुः नवप्रसूतायां गवि । तां धेनुम् । वनाय गन्तुं 'गम्यस्याऽऽप्ये' (२।२।६२।।) इति 'श्री सिव्हे.' सूत्रेण ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः' [२।३।१४॥] इति च 'पाणि०' सूत्रेण चतुर्थी । मुमोच-मुक्तवान् । अत्र जायापदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसन्धेयम् । तथा हि "पतिर्जायां प्रविशति, गर्भो भूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा, दशमे मासि जायते ।। तज्जाया जाया भवति, यदस्यां जायते पुनः ॥" इति । यशोधन इत्यनेन पुत्रवत्ताकीर्तिलोभाद् राजानर्हे गोरक्षणे प्रवृत्त इति गम्यते । ___ अस्मिन् सर्गे वृत्तमुपजातिः । “अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः" इति तल्लक्षणम् । वाच्यपरिवर्तनं त्वेवम् अथ प्रभाते यशोधनेन प्रजानामधिपेन जायाप्रतिग्राहितगन्धमाल्या पीतप्रतिबद्धवत्सा ऋषेर्धेनुर्वनाय मुमुचे ।। प्रभातसमये नृपमहिषी सुदक्षिणा मालाचन्दनादिभिर्नन्दिनीं सम्यक्तयाऽर्चयामास । वत्सं च प्रथमं स्तन्यं पाययित्वा पश्चाद् बबन्ध । ततो यशःपरायणः स दिलीपो वने स्वच्छन्दगमनाय तां नन्दिनीं मुक्तवान्, इति सरलार्थः । अथ सर्गारम्भेऽथशब्दप्रयोगपूर्वकसर्गप्रारम्भयित्रा ग्रन्थकारेण 'ओंकाराथकारौ' इत्यादिशुक्लयजुर्वेदप्रातिशाख्यीयकाः(क) १७ सूत्रस्य 'भाष्यकारोवट्टाचार्येणाऽर्थोऽकारि यत्, मङ्गलार्थावेतावित्यर्थकरणादपि सर्गप्रारम्भे अथशब्देन मङ्गलपूर्विका द्वितीयसर्गस्य प्रवृत्तिरिति दर्शितम् । "मङ्गला-नन्तरारम्भप्रश्नकात्स्न्र्येष्वथोऽथ" इति [अर्मरः] कोशवाक्यादनन्तरार्थोऽप्यथशब्दः तेन निशानयनानन्तरमित्यप्यावेदितम् । एवमेवा"ऽथाऽतो ब्रह्मजिज्ञासा" इत्युत्तरमीमांसाग्रन्थेऽनन्तरार्थोऽथशब्दः । आरम्भार्थस्तु “अथ योगानुशासनम्" इत्यत्र पातञ्जलयोगदर्शनशास्त्रे । प्रश्नार्थ-कात्स्यार्थयोस्तु प्रसिद्ध एव । अत्र तु १. अम० तृ० नानार्थवर्गे- २८२९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 93