Book Title: Raghuvansh Dwitiya Sarga Tika Author(s): Dharmkirtivijay Publisher: ZZ_Anusandhan View full book textPage 2
________________ December - 2003 स्वरादिलोपे अधिपः । 'पाणिनिमते तु 'पा-रक्षणे' धातोः 'आतचोपसर्गे' (३।१।१३६।।) इति सूत्रेण 'क' प्रत्यये 'आतो लोप इटि च' (६४६[४]1) इति सूत्रेणाऽऽकारलोपेऽधिपः । अधिप ईश्वरः । “अधिपस्त्वीशो, नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः, प्रभुर्भतेश्वरो विभुः, ईशितेनो नायकश्च" इति हैम:'। जायतेऽस्यां वेति जाया । प्रतिग्राह्येते स्मेति प्रतिग्राहिते । माला एव माल्यम्, अथवा मालायै हितं माल्यम् । गन्धश्च माल्यं च गन्धमाल्ये । जायया -सुदक्षिणया प्रतिग्राहिते-स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या, तां जायाप्रतिग्राहितगन्धमाल्याम् । तथोक्ताम् । 'सिद्ध द्ध हेम'मते 'गत्यर्थाऽकर्मक-पिबभुजेः (५।१।११॥) इति सूत्रेण सूत्रोक्तधात्वतिरिक्तधातुभ्यः कर्तरि क्तप्रत्ययस्य विधानाभावात् न तु कर्तरि क्तः । अत एव भाष्यकार: "पीता गावो भुक्ता ब्राह्मणा इत्यादावकारो मत्वर्थीयः" इत्युक्तवान् । भावे 'क्त' प्रत्यये पीतं पानं तदस्याऽस्तीति पीतः पीतवानित्यर्थः । 'अभ्रादिभ्यः' (७१२।४६।।) इति 'श्री सिव्हेश' सूत्रेण 'अ' प्रत्ययः । 'अर्शादि (आदि)भ्योऽच्' [५।३।१२७॥] इति 'पा०' सूत्रेण 'अच्' प्रत्ययः । अथवा विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य इति 'वार्तिककार' मते उत्तरपदस्य पयसो लोपोऽत्र द्रष्टव्यः । अत्र संज्ञायामेव पूर्वोत्तरपदयोर्लोप इति वार्तिककाराशयः । तत्संवादिसंज्ञायामेव पूर्वोत्तरपदलोपविधायि सिद्धहेमशब्दानुशासनस्थं 'ते लुग्वा' (३।२।१०८||) इति सूत्रम् । इममेवाऽऽशयं बुद्ध्वा कैयटो लोपशब्दार्थमाह- 'गम्यार्थप्रयोग एव लोपोऽभिमतः ।' पयसो यत्पीतत्वं तद् गोष्वारोप्यते । एतन्मते पीतं पयो येन स पीतः । प्रतिबद्धयते स्मेति प्रतिबद्धः । पीतश्चासौ प्रतिबद्धश्च पीतप्रतिबद्धः । अर्थात् पूर्वं पीतः पश्चात् प्रतिबद्धः पीतप्रतिबद्धः । पीतप्रतिबद्धो वत्सो यस्याः सा प्रीतप्रतिबद्धवत्सा, तां पीतप्रतिबद्धवत्साम् । 'सिद्धहे०श०' मते 'ऋषैत्-गतौ 'पाणिनीय' मते च 'ऋषी गता' विति धातोः ऋषतीति ऋषिः । ऋषिः 'मन्त्रद्रष्टरि मुनौ वेदे अनुष्ठेयज्ञापकसूत्रकृदाचार्य गोत्रप्रवरप्रवर्तके मुनौ च' वर्तते । तस्य ऋषेः । 'श्री सि०हे.' मते १. अभि० चि० तृ० ३५८-३५९ । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 93