Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 40
________________ 386 प्राकृत पाठ-चयनिका संस्कृतच्छाया 1. देवानां प्रियः प्रियदर्शी राजा सर्वान् पाषण्डान् च प्रव्रजितान् च गृहस्थान् च पूजयति दानेन च विविधया च पूजया पूजयति। 2. न तु तथा दानं वा पूजां वा देवानां प्रियः मन्यते यथा किमिति? सारवृद्धिः स्यात् सर्वपाषण्डानाम्। सारवृद्धिः तु बहुविधाः। 3. तस्य तु इदं मूलं यत् वचोगुप्तिः किमिति? आत्मपाषण्ड पूजा वा परपाखण्डगर्दा वा न भवेत् अप्रकरणे लघुका वा स्यात् 4. तस्मिन् तस्मिन् प्रकरणे। पूजयितव्या तु एव परपाषण्डाः तस्मिन् तस्मिन् प्रकरणे। एवं कुर्वन् आत्मपाषण्डं च वर्द्धयति परपाषण्डं च उपकरोति। 5. तदन्यथा कुर्वन् आत्मपाषण्डं च क्षिणोति परपाषण्डं चापि अपकरोति। यः हि कश्चित् आत्मपाषण्डं पूजयति परपाषण्डं च गर्हयति 6. सर्वम् आत्मपाषण्डभक्त्या किमिति? 'आत्मपाषण्डं च दीपयेम' इति सः च पुनः तथा कुर्वन् आत्मपाषण्डं बाढतरम् उपहन्ति। तत् समवायः एव साधु 7. किमिति? अन्योन्यस्य धर्मं शृणुयुः च शुश्रुषेरन् च। एवं हि देवानां प्रियस्य इच्छा। किमिति? सर्वे पाषण्डाः बहुश्रुताः च स्युः कल्याणागमाः च स्युः। 8. ये च तत्र तत्र प्रसन्नाः तैः वक्तव्यम्। देवानां प्रियः न तथा दानं वा पूजां वा मन्यते यथा किमिति? सारवृद्धिः स्यात् सर्वपाषण्डानाम्। बहुका च एतस्मै 9. अर्थाय व्यापृताः धर्ममहामात्राः च स्त्र्यध्यक्षमहामात्रा च व्रजभूमिका च अन्ये च निकायाः। इदं च एतस्य फलं यत् आत्मपाषण्डवृद्धिः च भवति धर्मस्य च दीपना।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124