Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ मृच्छकटिकम् 103 वहसि हि धनहार्यं पण्यभूतं शरीरं सममुपचर भद्रे सुप्रियं चाप्रियं च // 31 // अपि च - वाप्यां स्नाति विचक्षणो द्विजवरो मोपि वर्णाधमः फुल्लां नाम्यति वायसोऽपि हि लतां या नामिता बर्हिणा। ब्रह्मक्षत्रविशस्तरन्ति च यया नावा तयैवेतरे त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्वं भज // 32 // वसन्तसेना-गुणो क्खु अणुराअस्स कारणम्, ण उण बलक्कारो। (गुणः खल्वनुरागस्य कारणम्, न पुनर्बलात्कारः)। शकार:-भावे भावे, एशा गब्भदाशी कामदेवाअदणुज्जाणादो पहुदि ताह दलिद्दचालुदत्ताह अणुलत्ता ण मं कामेदि। वामदो तश्श घलम्। जधा तव मम अ हत्थादो ण एशा पलिब्भंशदि तधा कलेदु भावे।[भाव भाव, एषा गर्भदासी कामदेवायतनोद्यानात्प्रभृति तस्य दरिद्रचारुदत्त-स्यानुरक्ता न मां कामयते। वामतस्तस्य गृहम्। यथा तव मम च हस्तान्नैषा परिभ्रश्यति तथा करोतु भावः] विट:-(स्वगतम्।) यदेव परिहर्तव्यं तदेवोदाहरति मूर्खः। कथं वसन्तसेनार्यचारुदत्तमनुरक्ता। सुष्ठु खल्विदमुच्यते - 'रत्नं रत्नेन संगच्छते' इति। तद्गच्छतु। किमनेन मूर्खण। (प्रकाशम्।) काणेलीमातः, वामतस्तस्य सार्थवाहस्य गृहम्। शकारः-अध इं। वामदो तश्श घलम्। [अथ किम्। वामतस्तस्य गृहम्।। . वसन्तसेना-(स्वगतम् / ) अम्महे। वामदो तश्श गेहं त्ति जं शच्चम्, अवरज्झन्तेण वि दुज्जणेण उवकिदम्, जेण पिअशङ्गमं पाविदम्। [आश्चर्यम्। वामतस्तस्य गृहमिति यत्सत्यम्, अपराध्यतापि दुर्जनेनोपकृतम्, येन प्रियसंगमः प्रापितः।] शकारः-भावे भावे, बलिए क्खु अन्धआले माशलाशिपविट्टा विअ मशिगुडिआ दीशन्दी ज्जेव पणट्टा वशन्तशेणिआ।[भाव भाव, बलीयसि खल्वन्ध-कारे माषराशि-प्रविष्टेव मसीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना।] विट:-अहो, वलवानन्धकारः। तथाहि। आलोकविशाला मे सहसा तिमिरप्रवेशविच्छिन्ना। उन्मीलितापि दृष्टिर्निमीलितेवान्धकारेण // 33 // अपि च - लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/21866fcb47c925ecc675fac84338cdb3eea688f87930b33a76a2da8038f9d032.jpg)
Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124