Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 114
________________ 1127 प्राकृत पाठ-चयनिका चेटः-एशे भट्टालके। गेण्हदु णं भट्टके अशिम्। (एष भट्टारकः। गृण्हात्वेनं भट्टारकोऽसिम्।) शकारः-(विपरीतं गृहीत्वा।) णिव्वक्कलं मूलकपेशिवण्णं खन्धेण घेत्तूण अ कोशशुत्तम्। कुक्केहि कुक्कीहि अ बुक्कअन्ते जधा शिआले शलणं पलामि // 52 // [निर्वल्ककमूलकपेशिवर्णं स्कन्धेन गृहीत्वा च कोशसुप्तम्। कुक्कुरैः कुक्कुरीभिश्च बुक्कचमानो यथा शृगालः शरणं प्रयामि॥] (परिक्रम्य निष्क्रान्तौ विदषकः-भोदि रदणिए, ण क्ख दे अअं अवमाणो तत्तभवदो चारुदत्तस्स णिवेदइदव्वो। दोग्गच्चपीडिअस्स मण्णे दिउणदरा पीडा हुविस्सदि। (भवति रदनिके, न खलु तेऽयमपमानस्तत्र-भवतश्चारुदत्तस्य निवेदयितव्यः। दौर्गत्यपीडितस्य मन्ये द्विगुणतरा पीडा भविष्यति।) रदनिकाः-अज्ज मित्तेअ, रदणिआ क्खु अहं संजदमुही। (आर्य मैत्रेय, रदनिका खल्वहं संयतमुखी।) विदूषकः-एवं प्रणेदम्। (एवमिदम्।) चारुदत्तः-(वसन्तसेनामुद्दिश्य।) रदनिके, मारुताभिलाषी प्रदोषसमयशीतार्तो रोहसेनः।। ततः प्रवेश्यतामभ्यन्तरमयम्। अनेन प्रावारकेण छादयैनम्। (इति प्रावारकं प्रयच्छति।) . वसन्तसेनाः-(स्वगतम्।) कधं परिअणोत्ति मं अवगच्छदि। (प्रावारकं गृहीत्वा समाघ्राय च स्वगतं सस्पृहम्।) अम्हहे, जादीकुसुमवासिदो पावारओ। अणुदासीणं से, ज्जोव्वणं पडिभासेदि। (कथं परिजन इति मामवगच्छति। आश्चर्यम्, जातीकुसुमवासितः प्रावारकः। अनुदासीनमस्य यौवनं प्रतिभासते।) [अपवारितकेन प्रावृणोति] चारुदत्तः-ननु रदनिके, रोहसेनं गृहीत्वाभ्यन्तरं प्रविश। वसन्तसेना-(स्वगतम्। मन्दभाइणी क्खु अहं तुम्हे अब्भन्तरस्स। (मन्दभागिनी खल्वहं चारुदत्तः-ननु रदनिके, प्रतिवचनमपि नास्ति। कष्टम्। यदा तु भाग्यक्षयपीडितां दशां नरः कृतन्तोपहितां प्रपद्यते। तदास्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः // 53 //

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124