Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ मृच्छकटिकम् | 109 विटः-तस्य चारुदत्तस्य गुणेभ्यः। शकार-के तश्श गुणा जश्श गेहं पविशिअ अशिदव्वं पि णत्थि। (के तस्य गुणा यस्य गृहं प्रविश्याशितव्यमपि नास्ति।) विट:-मा भैवम्। सोऽस्मद्विधानां प्रणयैः कृशीकृतो न तेन कश्चिद्विभवैर्विमानितः। निदाघकालेष्विव सोदको हृदो नृणां स तृष्णामपनीय शुष्कवान् // 46 // शकारः-(सामर्षम्।) के शे गब्भदासीए पुत्ते। शूले विक्कन्ते पण्डवे शेदकेदू पुत्ते लाधाए लावणे इन्ददत्ते। आहो कुन्तीए तेण लामेण जादे अश्शत्थामे धम्मपुत्ते जडाऊ // 47 // (कः स गर्भदास्याः पुत्रः।) [शूरो विक्रान्तः पाण्डवः श्वेतकेतुः पुत्रो राधाया रावण इन्द्रदत्तः। आहो कुन्त्या तेन रामेण जातः अश्वत्थामा धर्मपुत्रो जटायुः।] विट:-मूर्ख, आर्यचारुदत्तः खल्वसौ। दीनानां कल्पवृक्षः स्वगुणफलनतः सज्जनानां कुटुम्बी आदर्शः शिक्षितानां सुचरितनिकषः शीलवेलासमुद्रः। सत्कर्ता नावमन्ता पुरुषगुणनिधिदक्षिणोदारसत्त्वो ह्येकः श्लाघ्यः स जीवत्यधिकगुणतया चोच्छवसन्तीव चान्ये // 48 // तदितो गच्छामः। शकार:-अगेण्हिअ वशन्तशेणिअम्। (अगृहीत्वा वसन्तसेनाम्।) विट:-नष्टा वसन्तसेना। शकारः-कथं विअ। (कथमिव।) विट: अन्धस्य दृष्टिरिव पुष्टिरिवातुरस्य मूर्खस्य बुद्धिरिव सिद्धिरिवालसस्य। स्वल्पस्मृतेर्व्यसनिनः परमेव विद्या
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/194431efac2889b79d596836f3df473c7843c1f422e950d9c43516a033f03f45.jpg)
Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124