Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ मध्य एशिया के अभिलेख बल 65 संस्कृतच्छाया महानुभावः महाराजः लिखति, चोझ्बो-सोंजकस्य मन्त्रं ददाति। - "एवं च जानता भवितव्यं [त्वया] यत् लिखामि। तत् (= यत्) च - यथा राज-कृत्यस्य कृतेन आज्ञप्तिः दत्ता, तथा राजकार्य औत्सुकस् आवर्जयितव्यं (= विधेयम्)। अपि [च] स्वस्य जीवित-परित्यागेन आज्ञप्तम् (= आज्ञा) रक्षितव्यं, यथा (= येनः) क्षेमं (= मङ्गलं) खोतम्नतः (= नदाख्य राजधानीतः = राजसकाशात्) व नसानं स्यात् (= आगच्छेत्)॥ एवं च एव [सर्वं मम महाराजस्य पादमूले विज्ञापयितव्यम्। यं च अतः (= अमुष्मात् स्थानात्) लेख-हारक-चढियस्य हस्ते [त्वं] विज्ञप्तिलेखं प्रहितवानसि, तथा (= तत्पाठात्) सर्वज्ञातार्थोऽस्मि। अपि च [त्वया विज्ञापितं [यत् कल-पूर्णबलस्य (= कलोपाधि-कपूर्णबलस्य।) उष्ट्रौ 2 न अस्मिन् [स्थाने] श्रयतः (= तिष्ठतः), [परन्तु] पलायेते। एतौ उष्ट्रौ अत्र (= तत्र) रजक (= रंजयित्वा) पालयितव्यौ। पीवरौ भवताम्। शरदि [तौ उष्ट्रौ] नकिञ्चित् (= न) अस्मिन् [स्थाने आनेतव्यौ। अपि [च] [त्वं मां] विज्ञापयसि यथा कल-पूर्णबल-नि (कल-पूण बिलापराख्य)-चमकस्य मनुष्येण (भृत्येन) अन्ये जनाः कर्मयन्ति (= भुत्यकर्म कारयन्ति)। .. लिखितकं (= स्वामित्व-प्रत्यायकं पत्रादि) साक्षी [च नास्ति। सः मनुष्यः कल-पूर्णबलस्य नाम्ना निष्खालयितव्यः (= परेषां भृत्यकर्मणः बहिष्कर्त्तव्यः)। येषां विवादः स्यात्, राजद्वारे गर्हयितव्यम् (= अभियोक्तव्यं) [तैः] / अपि च 'यैः अस्मिन् [धर्माधिकरणे अपराधिभिः भूयते, अस्मिन् [धर्माधिकरणे] एव तैः मर्त्तव्यम् भवति' इत्यर्थम् (= त्वया एवं विज्ञापितत्वात्) अत्र (= तत्र [अपराधिनः] विसर्जितवान् अस्मि। श्रूयते, विहारपालः अत्र (= तत्र) तनु (= आत्मनः)-किल्मे-कीयानां मद्यमांसेन सुष्ठु विहृतयति (= विशेषेण विहारं करोति = अपचिनोति) विनाशयति [च / दिवसीयः निश्रयः (= दैनिकं खाद्यादिक) विहार-पालाय सार्द्धं पुत्र-परिवारेण तनु-किल्मियतः (= विहारपालस्य स्व-विषयतः) दातव्यः-अटें (= गोधूमचूर्ण) यत् च शक्तु वचर्यः 4 (= चतुर्वचरी-परिमानम् अट्टशक्तुकम्)। [सः] यथापराधिधर्मेण रक्षितव्यः; न हस्तपादतः उद्धास्यते (= वञ्चयिष्यते = पाणिपादं न कतिष्यते); न तस्य बलास्तं (शक्तिक्षयः) भविष्यति॥ अपि सुदर्शनाय अतः कुटौ (= पात्रे) 2 विसर्येते। एतौ तस्य उपान्ते उद्दातव्यौ। तेन विधानेन (= पूर्वोक्त-विधानेन) [सुदर्शनाय] तनु-किल्मियतः भक्तं (= आहार्यं) दातव्यम्। एवं च एव सुरक्षितः कर्त्तव्यः [सः]। अपि [च] अत्र [= तत्र) सुदर्शनस्य अत्र किल्मकीय-गोष्ठे 2 / एतैः जनैः (= किल्मेकीयैः) शपथः शापयितव्यः 'न अतः पापं कार्यं, मन्त्रः [च] जल्पितव्यः, न अमुतः (= कारास्थ-सुदर्शनात्) [मन्त्रः] श्रोतव्यः।' वेला [यां] वेलायां (= काले काले) एते जनाः सुदर्शनस्य
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6804538f5e3e964f74bc358070bff18fbd24b0abd06adc6adb951be412b1b779.jpg)
Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124