Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ मध्य एशिया के अभिलेख 63 संस्कृतच्छाया भट्टारकस्य चोझ्बो-सोंचकस्य (= चोझ्बोपदाधिष्ठित-सोंचकाख्यस्य) पादमूले विजालयितव्यम् (= उन्मोचयितव्यं) खलखित-काष्ठ-द्वय-बन्धनम्॥ भट्टारकस्य प्रिय-देवमनुष्यस्य देव-मनुष्य-सम्पूजितस्य प्रत्यक्ष-बोधिसत्त्वस्य महाचोम्बो-सोंचकस्य पादमूले चोझ्बो-यिलियः नमिल्गयया (= यिलियपन्या नमिल्गयाख्यया) सचा (= सार्द्ध) नमस्कारं करोति दिव्यशरीरम् आरोग्यं च प्रेषयति बहु अप्रमेयम्। एवं च विज्ञायते तत् (= यत्) च - बहुचिरकालः भूतः, न शक्ताः स्मः तव उपान्ते (= सकाशे) लेख-प्राभृत-प्रेषणाय। तेन कारणेन सुष्ठु संज्ञापयामः - न काचित् (= न) च दिव्याज्ञा (= भवतः आज्ञप्तानि) [आवाभ्याम् अज्ञाता अस्ति। एषः श्रमणेरः चक्व कः अत्र (=तत्र) विसर्जितः तव दिव्यशरीरारोग्य-प्रेषणाय (= स्वास्थ्यादि-ज्ञापनाय)। यत् सः अत्र (= तत्र) वैधानं (= विधान-समूहं = कर्मजातं) किञ्चित् करिष्यति, अवश्यं [तव] मन्त्रः ख्नेन, श्रोतव्यः। सः श्रमणेरः तव ध्यानिकः (=ध्यान-विषयः) स्यात्। मा किञ्चित् (= न) अभ्यवमतं (= अनभिप्रेतं त्वया; यद्वा-अननुज्ञातं त्वया) किञ्चित् करोतु। प्राभृतस्य अर्थे येन (=यथा) न स्तिमितव्यम् (= विलम्बः न स्यात्), [तत्-कारणात् मया] लघुकं (= किञ्चिन्मात्र) प्राभृतं प्रहितम्। पश्चात्तरं (= पश्चात्) धर्मप्रियस्य हस्ते लेख-प्राभृतं प्रेषयिष्यामः यत् तव प्रत्यहं (यद्वा - प्रीत्यर्ह) स्यात्। यिलियस्य परितः (= सकाशात्) रज्जुः 1, नमिल्गयायाः परितः लस्तुकः (= बन्धन-विशेषः; यद्वा - लस्तूकः = धनुर्मध्यम्) 1 // " अपरिमित-गुणस्य मर्मगतस्य (= हृदये दत्त-स्थानस्य = प्रियस्य) प्रियभ्रातुः चोझूबो-बुद्ध रक्षितस्य पदाभ्यां धर्मप्रियः आरोग्यं संप्रेषयति बहु॥ श्रमणेरः (= श्रामणेर-सम्बन्धि-लेखः)। षष्ठोऽभिलेखः (चर्मपटोपरि) 1. महनुअव महरय लिहति चोझूबो-सोंजकस मंत्र देति (1*) एवं च जनंद भविदव्य यो लिहमि (1*) सच यहि रज-किचस क्रि
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3f1e400170be06bb81b6be7a95819ecd391b60f759bd29e887bacabf6d7ac1de.jpg)
Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124