Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 56
________________ 54 प्राकृत पाठ-चयनिका ....... कर्तुं जठर-लक्ष्मील-गोपुराणि ( दृढसुन्दरतोरणसमन्वितानि) शिखराणि निवेशयति [मुद्राणां] शत-विंशकानां परिहारैः; अद्भुतम् आश्चर्यं च हस्तिनिवासं (= वस्त्रसज्जां) प्रतिहरति ..... हयहस्तिरत्न-माणिक्यं; पाण्ड्य राजात् ..... मुक्ता-मणि- रत्नानि आहारयति / इह शतसहस्राणि ... वासिनः वशीकरोति। त्रयोदशे च वर्षे सुप्रवृत्त-विजयचक्रे (= सुप्रतिष्ठितविजयान्वित-शासन- ' समृद्ध) कुमारीपर्वते (न्कलंहपतप-जींदकंहपतप भ्पससे) अर्हद्धयः प्रक्षीण-संश्रितेभ्यः (= क्षीणाश्रयेभ्यः) काय-निषद्यायै (= वर्षासु विश्राम-लाभाय) यापोद्यापकेभ्यः राजभृतानां चीर्णव्रतानां (= राजपुष्टानां व्रताचरकाणां) वर्षाश्रितानां पूजानुरक्तोपासक-खारवेलश्रिया जीवदेहाश्रयिकाः (= आश्रयगुहाः) परिखानिताः। ... सत्कृतश्रमणः [खारवेलः] सुविहितानां च सर्वदिशानां ज्ञानिनां तपस्वृ-ऋषीणां संङ्घीयानाम् अर्हन्निषद्या-समीपे प्राग्भारे (= पर्वतपृष्ठे) वराकार-समुत्थापिताभिः अनेकयोजनाहृताभिः ....... शिलाभिः चत्वरे च वैदूर्यगर्भं स्तम्भं प्रतिष्ठापयति पञ्चोत्तरशत-सहौः [मुद्राणां]; मुख्यकलावच्छिन्नं (=गीतनृत्यादिसमन्वितं) चतुःषष्ठयङ्ग (= चतुःषष्टिप्रकारवाद्यविशिष्टं) शान्तिकं तौर्य (रणरहितकालोपयोगितौर्यत्रिकम्) उत्पादयति। क्षेमराजः सः वृद्धराजः (= उन्मत०) सः भिक्षुराजः धर्मराजः पश्यन् शृण्वन् अनुभवन् कल्याणानि ....गुणविशेष-कुशल: सर्वपार्षद-पूजकः सर्वदेवायतन-संस्कार-कारकः अप्रतिहत-चक्रवाहिनीबलः (= अपराजयेन राज्येन सैन्यबलेन च सनाथः) चक्रधरः (= धृतराजचक्रः, सुशासितचक्रः) गुप्त-चक्रः (= सुरक्षितराजमण्डलः) प्रवृत्त-चक्रः (= अप्रतिहतशासनः) राजर्षि-वसु-कुल-विनिःसृतः (= चेदिराजोपरिचरवसु०) महाविजयः खारवेलश्रीः (= श्रीमान् खारवेलः)॥

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124