________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
XOXOXOXOXOXXOXOXOXOXOX
सामिआई उच्छिन्नसेउआई उच्छिन्नगुत्तागाराई, गामा-गर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-सम-संबाह-सन्निवेसेसु सिंघाडएसु | वा तिएसु वा चउकेसु वा चच्चरेसु वा चउम्मुहेसु वा महापहेसु वा गामट्ठाणेसु वा नगरट्ठाणेसु वा गामनिद्धमणेसु वा नगरनिद्धमणेसु | वा आवणेसु वा देवकुलेसु वा सभासु वा पवासु वा आरामेसु वा उजाणेसु वा वणेसु वा वणसंडेसु वा सुसाण-सुन्नागार-गिरिकंदर*येषां, तानि उच्छिन्नस्वामिकानि, उच्छिन्नसेक्तृकानि उच्छिन्नगोत्रागाराणि । अथ केषु स्थानेषु तानि वर्त्तन्ते ?
इत्याह-ग्रामा:-करवन्तः, आकरा:-लोहाद्युत्पत्तिभूमयः, नगराणि-कररहितानि, खेटानि-धूलिप्राकारोपेतानि, कर्बटानि-पर्वतपरिवृतानि, मडम्बानि-सर्वतोऽर्धयोजनात्परतोऽवस्थितप्रामाणि, द्रोणमुखानि-जलस्थलोभयपथयुक्तानि, पत्तनानि-जलस्थलपथयोरन्यतरेण युक्तानि, आश्रमाः-तापसस्थानादयः, सम्वाहा:-कृषीवलानां धान्यरक्षणस्थानानि 'खला' इति लोकप्रसिद्धानि, सन्निवेशाः-सार्थकटकाद्युत्तरणस्थानानि, ततो द्वन्द्वः, तेषु, तथा शृङ्गाटकेषु-शृङ्गाटकः फलविशेषस्तदाकारत्रिकोणस्थानेषु वा, निकेषु-मार्गत्रयमिलनस्थानेषु वा, चतुष्केषु-मार्गचतुष्क
मिलनस्थानेषु वा, चत्वरेषु-अनेकमार्गमिलनस्थानेषु वा चतुर्मुखेषु-चतुर्दारेषु देवकुलादिषु वा, महापथेषुXराजमार्गेषु वा, ग्रामस्थानेषु-ग्रामाणामुदसितभूमिषु वा, एवं उद्वसितनगरस्थानेषु वा, तथा ग्रामस्य निर्धमनेषु
जलनिर्गमेषु “खाल" इति प्रसिद्धेषु वा, एवं नगरनिर्धमनेषु वा, आपणेषु-हद्देषु वा, देवकुलेषु-यक्षशिवाद्यायतनेषु वा, सभामु-जनोपवेशनस्थानेषु वा, प्रपासु-पानीयशालासु वा, आरामेषु-विविधलतोपेतकदल्याद्याच्छादितेषु स्त्रीपुंसयोः क्रीडाऽऽस्थानभूमिषुवा, उद्यानेषु-सपुष्पफलवृक्षेषु बहुजनभोग्येषु उद्यानिकाऽऽस्थानिकास्थानेषु वा,
For Private And Personal Use Only