Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
Vवृत्तिसङ्ग्राहक-प्रशस्तिः
OXXXXXXXX
"श्रीमदीरजिनेन्द्रतीर्थतिलकः सद्भूतसम्पन्निधिः, सञ्जज्ञे सुगुरुः सुधर्मगणभृत्तस्यान्वये सर्वतः। पुण्ये चान्द्रकुलेऽभवत्सुविहिते पक्षे सदाचारवान् , सेव्यः शोभनधीमतां सुमतिमानुयोतनः सूरिराट् ॥१॥” इत्यात्मप्रबोधे |जिनलाभसूरिविहिते । “तदीयपट्टे गुरुवर्द्धमानः, सूरीश्वरोऽभूद्धरणेन्द्रवन्धः । यश्चार्बुदाद्रौ गुणवर्द्धमानो, व्युच्छिन्नतीर्थ प्रकटीचकार ॥२॥” इति जिनचन्द्रसूरिचरित्रे लब्धिमुन्युपाध्यायसन्दृब्धे । ततः-"श्रीमद्गुर्जरभूमिभूषणमणी श्रीपत्तने पत्तने, श्रीमहुर्लभराजराजपुरतो यश्चैत्यवासिद्विपान् । निर्लोव्यागमहेतुयुक्तिनखरैर्वासं गृहस्थालये, साधूनां
समतिष्ठिपन्मुनिमृगाधीशोऽप्रधृष्यः परैः॥३॥ सूरिः स चान्द्रकुलमानसराजहंसः, श्रीमजिनेश्वर इति प्रथितः X| पृथिव्याम् । जज्ञे लसचरणरागमृदिशुद्ध-पक्षद्वयः शुभगति सुतरां दधानः॥४॥” युग्मम् ॥ इति शालीभद्रचरित्रे पूर्णभद्रोपाध्यायकृते । “राज्ञा तदा खरतराख्यमदायि तस्मै, सत्यत्वतः सुगुरवे बिरुदं यथार्थम् । संवत्खहँस्तिखंशशाङ्क(१०८०)समे ततस्त-च्छब्देन तस्य हि गणोऽपि गतः प्रसिद्धिम् ॥ ५॥ तदीयशिष्यो जिनचन्द्रसूरि-युगप्रधानश्च बभूव तस्य । सूत्रार्थतोऽष्टादशनाममाला, कण्ठाग्रमासन्मुनिसत्तमस्य ॥६॥” इति जिनचन्द्रसूरिचरित्रे । "अन्योऽपि शिष्यतिलकोऽभयदेवसूरिः, श्रीमजिनेश्वरगुरोः श्रुतकेतुरासीत् । पञ्चाशकाष्टकनवाङ्गमनोज्ञटीकाकारः सुचारुधिषणः सुमनः प्रपूज्यः ॥७॥ आकर्ष्याभयदेवसूरिसुगुरोः सिद्धान्ततत्त्वामृतं, येनाज्ञायि न सङ्गतो
पर्यु. क. ३५
For Private And Personal Use Only

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435