Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धगात्रम् ॥४०॥” इति खरतरपट्टावल्यां लब्धिमुन्युपाध्यायकृतायाम्। "जिनादिसुखसूरीणां, कर्मचन्द्राभिधाः परे। विनेया नयभङ्गीषु, निपुणा अभवन् भुवि ॥४१॥ तेषामीश्वरदासाख्याः, शिष्या आसन्सतां मताः। तद्विनेया वृद्धिचन्द्रा, नयनीतिविशारदाः॥४२॥ तच्छिष्या लालचन्द्राख्या, अभवन्नतिविश्रुताः। जिनभाषिततत्त्वार्थज्ञातारोऽमलबुद्धयः॥४३॥ तेषां विनेया अभवन् , रूपचन्द्रा महाधियः। प्रायः शातोत्पादके ते, पुरे नागपुरेऽवसन् ॥४४॥” इति मोहनचरित्रे दामोदरशर्मकृते । विनेया जज्ञिरे तेषां, संवेगरङ्गरङ्गिताः। विहितसक्रियोद्धारा, मोहनाख्या मुनीश्वराः॥४५॥ सर्वतः प्राक्समारब्धं, साधूनामागमं च यैः। मोहमय्यां पुरीवर्या, साध्वाचारप्रतिष्ठितैः॥४६॥ कारिता स्थापना जैन-महाविद्यालयस्य यैः। जैनानां श्रेयसे तत्र, बाबूजीवनलालतः॥४७॥ सिद्धायुपत्यकायां च, प्रतिष्टितं जिनालयम् । शलाकाञ्जननिर्मित्या, नन्देश्वैतन्बु(१९६९)ससे ॥४८॥ ग्रामे कतारग्रामाख्ये, सुरतासन्नवर्तिनि । जीर्णोद्धारं विधाप्याथ, प्रतिष्ठितं जिनालयम् ॥४९॥ अन्येऽपि सुरतादौ | हि, नैके चैत्याः प्रतिष्ठिताः। प्रतिष्ठिताः पत्तने यै-जिनदत्तादिपादुकाः॥५०॥ अनेकविधमित्येवं, जैनशासनद्योतनात् । सञ्जाताः शतके विशे, महाधर्मप्रभावकाः॥५१॥ तच्छिष्या बहवोऽभूवन्, श्रमणधर्मपालकाः। श्रीयशस्सूरयस्तेषु, मुख्याः शान्तास्तपखिनः॥५२॥ वीरनिर्वाणपूतायां, पापायां ये हि स्वर्गताः। वहिबाणापवासाँश्च(५३), विधाय शुभभावतः ॥५३॥ तदाज्ञावर्तिपंन्यास-श्रीकेशरमुनीश्वरैः । मोहनमुनिशिष्यश्री-मद्धेममुनिशिष्यकैः॥५४॥ श्रीमोहनमुनीशानां,शिष्या आसन् विशारदाः। श्रीराजमुनिनामान-स्तदीयहस्त
For Private And Personal Use Only

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435