Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 423
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा कल्पार्थ बोधिनी ॥ २०६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्पणसावधानः । सद्गच्छसन्धारणमेढिकल्पः, सूरीश्वरः श्रीजिनचन्द्रनामा ॥ २८ ॥ तदीयपट्टे समभूज्जिनादिः, समुद्रसूरिर्मुनिधर्मरक्तः । शास्त्रानुसारेण जगद्विवर्त्ति - पदार्थसार्थप्रवरोपदेशी ॥ २९ ॥ तदीयपट्टे जिनहंस सूरित्रिगुप्तिगुप्तो विशदाशयोऽभूत् । प्राज्ञो विशुद्धाचरणः प्रवादि-स्तम्बेरमोच्छेदनसिंहकल्पः ॥ ३० ॥ तदीयपट्टे समभूज्जिनादि - माणिक्यसूरिश्व महाव्रतीशः । दुर्वारपाखण्डमतावलम्बि - वाङ्मेघमालाहरणैकवायुः ॥ ३१ ॥” इति जिनचन्द्रसूरिचरित्रे । ततोऽभूजिनचन्द्राख्यः, सूरिः सूरिशिरोमणिः । निर्जितः पत्तने येन, धर्मों मिथ्याप्ररूपकः ॥३२॥ " अकबररञ्जनपूर्वं द्वादशसूबेषु सर्वदेशेषु । स्फुटतरममारिपटहः, प्रवादितो यैश्व सूरिवरैः ॥ ३३ ॥” इति कल्पलतायाम् । "अकवराख्यक्षितिपालनाथ - स्तत्तचमत्कारिगुणातिसक्तः । युगप्रधानेत्यभिधामचीकथत्, स नन्दतु श्रीजिनचन्द्रसूरिः ॥ ३४ ॥” इति शब्दप्रभेदवृत्तौ । "भट्टारकश्रीजिनसिंहसूरि- स्तदीयपट्टेऽजनि बुद्धिशाली । विशुद्धजैनेन्द्रपथप्रकाशी, समग्रजीवाभयदानदायी ।। ३५ ।। ततः परं श्रीजिनराजसूरिः, षट्कायसंरक्षणदत्तदृष्टिः । कारुण्यसिन्धुः समभूत्कुवादि - मानाद्विसञ्चरणवज्रतुल्यः ॥ ३६ ॥ तदीयपट्टे जिनरत्नसूरि-र्बभूव सिद्धान्तसुपारगामी । समग्रदेशेषु विहारकारी, ज्ञानक्रियावान्यतनादियुक्तः ॥ ३७ ॥ तदीयपट्टे जिनशासनोरु- नीरालयोल्लासनचन्द्रतुल्यः । आल्हादितप्राणिगणो बभूव, भट्टारकश्रीजिनचन्द्रसूरिः ॥ ३८ ॥ सौख्यङ्करो भवजलाशययानपात्रं, षड्वर्गवर्गित गुणौघविराजमानः । भव्यात्मपङ्कजविबोधन भास्करस्त - दीयपदे जिनसुखाभिधसूरिरासीत् ॥ ३९ ॥ तदीयपट्टे जिनभक्तिसूरि-र्गतप्रमादो विजितेन्द्रियश्च । बभूव हिंसादिक दोषशून्य-स्तपः क्रियासंयम For Private And Personal Use Only प्रशस्तौ जिनसमुद्रसूर्यादयः ॥ २०६ ॥

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435