Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 422
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir X सिद्धान्तवरेबोधः॥१६॥ तदीयपट्टे जिनचन्द्रसूरि-भूव दूरीकृतसंवरारिः । प्रज्ञाप्रकर्षाजितदेवसूरि-गुणौघ सन्तोषितसर्वसूरिः॥१७॥ तेनाबोधि चतुर्नृपाः सुगुरुणा तस्माच सूरीश्वरात्, सुख्याति प्रगतो गणः खरतरः श्रीराजगच्छाख्यया । जित्वा वादिगणान्विशारदसभाप्राप्तान्स विद्वत्तया, सूरीशः कलिकालकेवलितया लोके प्रसिद्धिं गतः॥१८॥ अभूजिनादिः कुशलाख्यसूरि-स्तदीयपट्टे मुनिसत्तमोऽस्ति । अद्यापि सर्वत्र च सप्रभावा, यत्पादुकाः सज्जनपूज्यमानाः ॥ १९॥ तदीयपट्टे जिनपद्मसूरि-मा॑नादिपद्मापरिभूषितोऽभूत् । संसारपद्माकरभव्यपद्म-सूर्यश्च विद्वन्नतपादपद्मः॥२०॥ सरखत्याः प्रसादेन, बभूवुस्ते प्रधारकाः। बालधवलकूचोल-भारतीविरुदस्य च ॥२१॥ तदीयपट्टे जिनलब्धिसूरि-बभूव सम्प्राप्तमुनित्वशोभः। सम्पादिताशेषमुखादिलाभो, Xविद्याचणोऽष्टप्रणिधानवक्ता ॥ २२॥ तदीयपट्टे जिनचन्द्रसूरिः, शुद्धाशयोऽभूद्गतमानमायः। खर्गापवर्गा-16 तुलसौख्यदायि, ज्ञानादिसंसाधनसावधानः॥ २३ ॥ तदीयपहे परिपालयन्तः, पञ्चप्रकारं सुविशुद्धभावाः। आचारमासंश्च जिनोदयाख्याः, सूरीश्वराः सन्मुनिसेवनीयाः॥ २४ ॥ सूत्रार्थरत्नौधविनाशितान्त-मिथ्यान्धकारो जिनराजसूरिः। तदीयपट्टेजनि तार्किकेषु, मुख्यःप्रसन्तोषितभव्यजीवः॥२५॥ तदीयपट्टे जिनभद्रसूरिभद्रः प्रकृत्या कृतभूरिभद्रः। प्रभूतसैद्धान्तिकपुस्तकानि, येनोपकाराय विलेखितानि ॥२६॥” इति जिनचन्द्रसूरिचरित्रे लब्धिमुन्युपाध्यायकृते । “वामेतरे यत्करपङ्कजेऽस्मिन्, चेक्रीयते सिद्धिरमा सुकेलिम् । बिहारनीरोर्मय एव येषां, सम्पत्तिशस्यानि समेधयन्ति ॥ २७॥” इति स्थविरसूरिपरम्परायाम् । “तदीयपद्देऽजनिभव्यजीव-धर्मोपदेशा-| For Private And Personal Use Only

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435