SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir Vवृत्तिसङ्ग्राहक-प्रशस्तिः OXXXXXXXX "श्रीमदीरजिनेन्द्रतीर्थतिलकः सद्भूतसम्पन्निधिः, सञ्जज्ञे सुगुरुः सुधर्मगणभृत्तस्यान्वये सर्वतः। पुण्ये चान्द्रकुलेऽभवत्सुविहिते पक्षे सदाचारवान् , सेव्यः शोभनधीमतां सुमतिमानुयोतनः सूरिराट् ॥१॥” इत्यात्मप्रबोधे |जिनलाभसूरिविहिते । “तदीयपट्टे गुरुवर्द्धमानः, सूरीश्वरोऽभूद्धरणेन्द्रवन्धः । यश्चार्बुदाद्रौ गुणवर्द्धमानो, व्युच्छिन्नतीर्थ प्रकटीचकार ॥२॥” इति जिनचन्द्रसूरिचरित्रे लब्धिमुन्युपाध्यायसन्दृब्धे । ततः-"श्रीमद्गुर्जरभूमिभूषणमणी श्रीपत्तने पत्तने, श्रीमहुर्लभराजराजपुरतो यश्चैत्यवासिद्विपान् । निर्लोव्यागमहेतुयुक्तिनखरैर्वासं गृहस्थालये, साधूनां समतिष्ठिपन्मुनिमृगाधीशोऽप्रधृष्यः परैः॥३॥ सूरिः स चान्द्रकुलमानसराजहंसः, श्रीमजिनेश्वर इति प्रथितः X| पृथिव्याम् । जज्ञे लसचरणरागमृदिशुद्ध-पक्षद्वयः शुभगति सुतरां दधानः॥४॥” युग्मम् ॥ इति शालीभद्रचरित्रे पूर्णभद्रोपाध्यायकृते । “राज्ञा तदा खरतराख्यमदायि तस्मै, सत्यत्वतः सुगुरवे बिरुदं यथार्थम् । संवत्खहँस्तिखंशशाङ्क(१०८०)समे ततस्त-च्छब्देन तस्य हि गणोऽपि गतः प्रसिद्धिम् ॥ ५॥ तदीयशिष्यो जिनचन्द्रसूरि-युगप्रधानश्च बभूव तस्य । सूत्रार्थतोऽष्टादशनाममाला, कण्ठाग्रमासन्मुनिसत्तमस्य ॥६॥” इति जिनचन्द्रसूरिचरित्रे । "अन्योऽपि शिष्यतिलकोऽभयदेवसूरिः, श्रीमजिनेश्वरगुरोः श्रुतकेतुरासीत् । पञ्चाशकाष्टकनवाङ्गमनोज्ञटीकाकारः सुचारुधिषणः सुमनः प्रपूज्यः ॥७॥ आकर्ष्याभयदेवसूरिसुगुरोः सिद्धान्ततत्त्वामृतं, येनाज्ञायि न सङ्गतो पर्यु. क. ३५ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy