Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 386
________________ Shri Mahavir Jain Aradhana Kendra CXCXXX www. kobatirth.org वासावासं पजोसवियाणं नो कप्पर निग्गंथाण वा निग्गंधीण वा जाव उवस्सयाओ सत्तघरंतरं संखार्ड संनियट्टचारिस्स इत्तए । एगे एवमाहंसु नो कप्पइ जाव उवस्सयाओ परेणं सत्तघरंतरं संखार्ड संनियट्टचारिस्स इत्तए । एगे पुण एवमाहंसु-नो कप्पर जाव उवस्सयाओ परंपरेणं संखडिं संनियट्टचारिस्स इत्तए ॥ २७ ॥ (११) । भोजनस्य वा पानके क्षेतुं न कल्पत इत्यर्थः । इति दशमी सामाचारी ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ सङ्खडिगमननिषेधलक्षणामेकादशीं सामाचारीं प्राह २७ - वर्षावासं पर्युषितानां नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यावदुपाश्रयात् 'सप्तगृहान्तरं' सप्तगृहमध्ये 'संस्कृतिं' भोजन पाकलक्षणां-बहुजनजेमनवाररूपां 'एतुं' गन्तुं । भिक्षार्थं तत्र गन्तुं न कल्पत इति भावः । कीदृशानां साधूनां न कल्पते ? 'सन्निवृत्तचारिणां निषिद्धगृहेभ्यः सम्यनिवृत्ताः सन्तश्चरन्ति ये ते तथा, तेषां । अत्र बहुत्वे एकत्वमार्षत्वात् । बहवस्त्वेवं व्याचक्षते - यत्सोपाश्रये सप्तगृहमध्ये जेमनवारे भिक्षार्थं गन्तुं न कल्पते । 'एके' केचिदाचार्या एवमाहुः -नो कल्पते यावदुपाश्रयात्परतः सप्तगृहान्तरे जेमनवारे सन्निवृत्तचारिणां | भिक्षार्थं गन्तुं । एके पुनरेवमाहुः - न कल्पते यावदुपाश्रयात् 'परम्परया' एकं गृहं मुक्त्वा सप्तगृहमध्ये जेमनवारे सन्निवृत्तचारिणां 'एतुं' गन्तुं । अत्राद्येन मतेन सोपाश्रये, द्वितीयेन मतेन उपाश्रयात्परतः, तृतीयेन मतेन उपाश्रयं | परतोऽपि चैकं गृहं मुक्त्वा सप्तगृहे, अर्थात्सोपाश्रयेषु सप्तखष्टसु नवसु वा गृहेषु जेमनवारे सुविहितैर्भिक्षार्थं न गन्तव्यं, तेषां सन्निहितत्वेन साधुगुणहृतहृदयतया उद्गमादिदोषसम्भवत्वात् । इत्येकादशमी सामाचारी ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435