Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 414
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir वासावासं पजो० कप्पइ नि० वा नि० वा तओ उवस्सया गिण्हित्तए,तं जहा-वे[ट्टिया]विया पडिलेहा साइजिया पमजणा(२५)। अथ वर्षासूपाश्रयसङ्ख्याप्रतिपादिकां पञ्चविंशतितमी सामाचारीमाह ६०-वर्षावासं पर्युषितानां कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा त्रय उपाश्रया ग्रहीतुं, जन्तुसंसक्ति-जलप्लावनादिदोषभयात्, तद्यथा-"वेउविया" कचित् "वेउट्टिया" इति दृश्यते, उभयत्रापि पुनःपुनरित्यर्थः, का ?, प्रतिलेखना दृष्ट्यावलोकनात्मिका उपभुज्यमानस्यानुपभुज्यमानस्यापि च, कार्येति शेषः । तथा 'साइजिय'त्ति उपभुज्यमानोपाश्रयसत्का प्रमार्जना कार्या । इदमुक्तं भवति-यस्मिन्नुपाश्रये साधवः स्थिता भवन्ति तं प्रातः प्रमार्जयन्ति, ततो भिक्षागतेषु साधुषु, पुनर्मध्याह्ने, तथैव प्रतिलेखनावसरे तृतीययामे, इत्येवं वारचतुष्टयं | वर्षासु, ऋतुबद्धे तु वारत्रयं, असंसक्तेऽयं विधिः, संसक्ते तु पुनःपुनः प्रमार्जनीयं । शेषोपाश्रयद्वयं तु प्रत्यहं दृशा प्रतिलेख्यं, मा कोऽपि तत्र स्थास्यति ममत्वं वा करिष्यतीति, तृतीये चाह्नि दण्डप्रोञ्छनेन प्रमार्जनीयमिति।। ___ यत्तु किरणावलीकारस्य "सन्देहविषौषध्यां वारचतुष्टयप्रमार्जनमयुक्तं, चूर्णों वारत्रयस्यैवोक्तत्वा"दिति प्रलपनं तत्पृथुस्थूलबुद्धेः शास्त्राशयापरिज्ञानस्य चैवानुमापकं, यतो माध्याहिकं प्रमार्जनं भोजनोत्तरकालभावि, तच्चाहार करणेऽनाभोगादिना प्रपतितान्नकणादिपरिष्ठापनकृते भोजनदिनापेक्षिकमेव, न हि सार्वदिकं, तत्तु भोजनदिने KA करणीयमेव, अन्यथा जन्तु संसक्त्यादिबहुदोषसम्भवः, अतस्तं निषेधयंस्त्रसेष्वप्यनुकम्पारहितो जिनाज्ञायाः कुर्वता कर्करैः कर्ण-मोटनं क्षुल्लकस्य हि।११शक्षुल्लकोऽवक्प्रपीड्येऽहं, सोऽवमिच्छामि दुकडम् । नैवं भवति मिच्छामि-दुकडं श्रेयसे क्वचित् ॥१२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435