Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासावासं पजो० इह खलु नि० वा नि० वा अजेव कक्खडे कडुए बुग्गहे समुपजिजा, सेहे रायणियं खामिजा, रायणिए वि सेहं| खामिजा (ग्रं०१२००)। खमियत्वं खमावियत्वं उवसमियवं उवसमावियचं, संमुइसंपुच्छणाबहुलेणं होयच्वं । जो उवसमइ तस्स अस्थि आरादहिष्क्रियते, तथाऽयमपि अनन्तानुबन्धिक्रोधाविष्टो विनष्ट एवेति बहिः कर्त्तव्यः)। यस्तु पर्युषणायामप्यकृतक्षामणःस सङ्घबाह्यो भवति, अत एव हि सापराधोऽपि चण्डप्रद्योतः साधर्मिक इति कृत्वा उदयनराज्ञा मुक्तः । इति त्रयोविंशी सा०॥ | अथ परस्परक्षामणाविधिनिरूपिकां चतुर्विशी सामाचारीमाह- .
५९-वर्षावासं पर्युषितानां इह प्रवचने खलु निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अद्यैव-पर्युषणादिने 'कक्खड'त्ति| कर्कशो-निष्ठुरः कटुको-जकारमकारादिरूपो यदि 'व्युद्ग्रहः' कलहः समुत्पद्येत, तदा'शैक्षो' लघू रानिक' ज्येष्ठ सापराधमपि प्रथम क्षामयेत्, तथा व्यवहारात्, ततो रात्निकोऽपि शैक्षं क्षामयेत् । अथापरिणतधर्मत्वान्न क्षामयति लघुयेष्ठं चेत्तदा ज्येष्ठेन प्रथमं लघुःक्षामयितव्यः, ततः क्षमयितव्यं खयमेव क्षामयितव्यः परः, तथा| उपशमितव्यमुदितकोपस्य विफलीकरणेनात्मना उपशमयितव्यश्च परः, नैतावन्मात्रं, किन्तु 'सम्मुइ'त्ति राग___+ तद्व्यतिकरस्त्येवं-सिन्धुदेशे महसेनादिदशमुकुटबद्धनृपसेव्यो बीतभयपुराधीश उदयनो नाम राजा, स हि विद्युन्मालिदेवतार्पितदेवाधिदेवश्रीमद्वीरप्रतिमायास्तदर्चनार्थमागतगन्धारश्रादार्पितगुटिकाप्रभावेण सजातामृतरूपत्वात्सुवर्णगुलिकेल्याख्यया प्रसिद्धिमुपगताया देवदत्ताया दास्याश्च अपहर्तारं चतुर्दशमुकुटबद्धनृपसेव्यं मालवेशं चण्डप्रद्योत सङ्ग्रामे बड़ा पश्चाद्वलन् दशपुरे वर्षासु स्थितः, वार्षिकपर्वणि भूपः स्वयमुपवासमकरोत् , भूपादिष्टसूपेन भोजनाय पृष्टे | ममाप्यद्योपवासोऽस्तीति जल्पाके धूर्तसाधर्मिकेऽप्यस्मिन् बद्धे कथं मम प्रतिक्रान्तिशुद्धिरिति विमृश्य तं मुक्त्वा क्षामयित्वा च 'मम दासीपति'रिति पूर्वलिखिताक्षराच्छादनाय भाले स्वमुकुटपह बन्धयित्वाऽवन्तिविषयं दत्तवानिति ।
।
For Private And Personal Use Only

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435