Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 411
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० कल्पार्थबोधिन्याः व्या०९ सूत्रं ५८ सामाचार्या अधिकरण| निषेध| निरूपिका त्रयोविंशी सामाचारी ॥२० ॥ वासावासं पज्जोसबियाणं नो कप्पइ निग्गंथाण वा निग्गंधीण वा परं पज्जोसवणाओ अहिगरणं वइत्तए, जेणं निग्गंथो वा निग्गंथी दवा परं पजोसवणाओ अहिगरणं वयइ, से णं 'अकप्पेणं अजो! वयसीति वत्तचे सिया । जे णं निग्गंथो वा निग्गंधी वा परं पज्जोसव णाओ अहिगरणं वयइ, से णं निजूहियवे सिया ॥ ५८ ॥ (२३)। सांवत्सरिको वा स्थविरकल्प:-'स्थविराणां' वृद्धानां जराजर्जरत्वेनाशक्तत्वात् दृष्टिरक्षणार्थ च सांवत्सरिकः। कल्पः लोचस्य, अर्थापत्त्या तरुणानां चातुर्मासिकः । इति द्वाविंशी सामाचारी ॥ __ अथाधिकरणानुदीरणनिरूपिकां त्रयोविंशतितमों सामाचारीमाह ५८-वर्षावासं पर्युषितानां नो कल्पते नि० वा नि० वा परं पर्युषणातः 'अधिकरणं' कलहकृद्वचनं वक्तुं, यो निर्ग्रन्थो वा निर्ग्रन्थी वा परं पर्युषणातोऽधिकरणं वदति, स चैवं वक्तव्यः स्यात्, यदुत-'आर्य ! अकल्पेन त्वं वदसि' यतः पर्युषणातः प्राक् तद्दिने वा यदधिकरणमुत्पन्नं तत्सर्व पर्युषणायां क्षामितं, यच्च त्वं तदनन्तरमप्यधिकरणं वदसि तदयमकल्प इति हृदयम्। यश्चैवं वारितोऽपि निर्ग्रन्थो वा निर्ग्रन्थी वा परं पर्युषणातोऽधिकरणं वदति, स नियूहितव्यः-ताम्बूलिकपत्रदृष्टान्तेन x संघाहहिर्विधेयः (यथा ताम्बूलिकेन विनष्टं पत्रं अन्यपत्रविनाशनभया वृषभमारकद्विजदृष्टान्तेन वा, यथा-खेटवास्तव्यो रुद्राख्यो द्विजो वर्षाकाले हलं लात्वा क्षेत्रं गतः, हर्क वाहयतस्तस्य गलिबलिवर्द उपविष्टः, तोत्रेण ताब्यमानोऽपि नोत्तिष्ठति, कुद्धेन द्विजेन कृष्टकेदारनयमृत्खण्डैराहन्यमानो मृत्खण्डस्थगितमुखः श्वासरोधान्मृतः, ततः सातपश्चात्तापो द्विजो महाजनान्तिकं गत्वा प्रायश्चित्तममार्गयत् । 'उपशान्तो न वा?" इति तैः पृष्टो 'नाद्यापि ममोपशान्ति रिति वदन् द्विजैरपाङ्केयो विहितः। एवं अनुपशान्तकोपतया पर्युषणायामप्यकृतक्षामणः साध्वादिरपि गणाविष्कारयः, उपशान्तोपस्थितस्यैव स्थान दातव्यम् । ॥२०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435