Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
उवायणावित्तए । अजेणं खुरमुंडेण वा लुकसिरएण वा होइयवं सिया। पक्खिया आरोवणा, मासिए खुरमुंडे, अद्धमासिए कत्तरिमुंडे, छम्मासिए लोए, संवच्छरिए वा थेरकप्पे ॥ ५७॥ (२२)। वर्द्धिते च वर्षे विंशतितमी श्रावणशुक्लपञ्चमीरात्रिं, साम्प्रतं तु पञ्चाशत्ती श्रावणस्य भाद्रपदस्य वा शुक्लचतुर्थीरात्रिं अतिक्रमयितुं न कल्पते, तस्या अर्वागेव लोचं कारयेत् । इदमुक्तं भवति-समर्थश्चेत्तदा वर्षासु नित्यं लोचं कारयेत्, असमर्थोऽपि सांवत्सरिकरात्रि नोल्लङ्घयेत्, लोचं विना सांवत्सरिकप्रतिक्रमणस्यावश्यमकल्प्यत्वात् । केशेषु हि अप्कायविराधना, तत्संसर्गाच्च यूकाः सम्मूर्च्छन्ति, ताश्च कण्डूयमानो हन्ति, शिरसि नखक्षतं वा स्यात्, यदि चक्षुरेण मुण्डापयति कर्तर्या वा कारयति तदाऽज्ञाभङ्गादयो यूकाछेदन-नापितपश्चात्कर्म-शासनापभ्राजनादिदोषाः स्युः, अत उत्सर्गतो लोच एव श्रेयान् । यदि चासहिष्णुर्लोचे कृते ज्वराद्युपद्रवः स्यात्कस्यचित् बालो वा रुद्याद्धर्म वा त्यजेत्ततो न तस्य लोचः कार्य इत्याह-'आर्येण' साधुना बालग्लानादिनाऽपवादतः क्षुरमुण्डेन, उत्सर्गतस्तु लुश्चितशिरोजेन भवितव्यं स्यात्, यस्तु व्रणादिकारणात्क्षुरेणापि कारयितुमसमर्थस्तस्य कर्तर्या कार्या । पाक्षिका आरोपणा-पक्षे पक्षे संस्तारकदवरकाणां बन्धा मोक्तव्याः प्रतिलेखितव्याश्च, यद्वा 'आरोपणा' प्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वदा, वर्षासु विशेषतः। मासिकः क्षुरमुण्डः-असहिष्णुना मासे मासे मुण्डनं कारणीयं, अर्द्धमासिकः कर्तरीमुण्ड:-यदि कर्तर्या कारयति तदा पक्षे पक्षे गुप्तं कारणीयं, क्षुरकर्तर्योश्च प्रायश्चित्तं निशीथोक्तं यथासङ्ख्यं लघुमास-गुरुमास(पुरिमार्द्वकाशन)रूपं ज्ञेयं । पाण्मासिको लोचः,
आरोपणा-पक्षे पक्षे मासु विशेषतः । मासिका पक्ष पक्ष गुप्तं कारणीय, लावः
For Private And Personal Use Only

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435