Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 407
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा कल्पार्थबोधिन्याः व्या० ९ ॥१९८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मियासणियस्स आयाधियस्स समियस्स अभिक्खणं २ पडिलेहणासीलस्स पमजणासीलस्स तहा तहा णं संजमे सुआराहप भवइ ॥ (१९) । अभीक्ष्णं २ प्रतिलेखनाशीलस्य प्रमार्जनाशीलस्य च साधोस्तथातथाप्रकारेण संयमः सुखाराध्यो भवति । तत्रेर्यायां वरदत्तो मुनिर्भाषासमितौ सङ्गतः * श्रमणः, एषणायां वसुदेवपूर्व भवजीवो नन्दिषेणो मुनिः +, आदाननिक्षेपादौ प्रतिलेखनायां च सोमिलो मुनिः +, उच्चारादिपारिष्ठापनिकायां सुव्रताचार्यशिष्यः क्षुल्लको > स हि कदाचिदिन्द्रेण प्रशंसितः, ततः सञ्जातामर्षेण मिथ्यादृष्टिसुरेणागत्य हस्तिरूपं विकुन्यं शुण्डया मुनिं गृहीत्वा नभसि उल्लालितोऽभश्च भूमौ सूक्ष्मा * भिगृहीतामण्डूक्यो विकुर्विताः, मुनिना चाधः पतता चिन्तितं सखेदं 'अहो मम देहेनैता वराकीमण्डूक्यो विनाशमाप्स्यन्ती'ति तन्मनोवृत्तिं विज्ञाय देवेन क्षामितः । * स च शत्रुरुद्धान्नगरान्निर्गच्छन् शत्रुसैनिकैर्धृतः पृष्टश्च 'नगरान्तः कीदृशं सैम्यस्य बलाबलं ?' इति, मुनिराह - 'यौ कर्णौ शृणुतस्तौ न वदतः न च पश्यतः, ये नेत्रे पश्यतस्ते न वदतो न शृणुतश्च, या च रसना वदति सा न पश्यति न शृणोति च' । पुनः पुनरेवमेव जल्पन् 'पाठग्रहिल इति कृत्वा मुक्तस्तैः २ । + स हि ग्लानवैयावृत्याभिग्रही नित्यषष्ठभक्तिकः, शक्रप्रशंसया सञ्जातामर्षेण मिथ्यादृक्सुरेणातीसारिसाधुविकुर्वणां विधाय क्षुल्लकसा धुरूपेण वैयावृत्त्यनिमित्तमभ्यर्थितो नन्दिषेणस्तस्य देहशुद्धार्थ जलविहरणाय गतो गृहस्थगेहे, तत्र च विहिता सुरेणानेषणा, कथञ्चित्सुरस्यासावधानत्वे प्राप्तं शुद्धजलं विहृत्य गतो ग्लानान्तिके, देहशुद्धिकरणपूर्वकं तं स्कन्धे समारोप्य चलितस्ततः, खरण्टितमशुचिना तेनाऽखिलमपि देहं तस्य तथाप्यविचलितचित्तः स क्षामितः सुरेण ३ । भिगृहीतशय्यासन* कत्वादिना + क्वापि गच्छे सोमिलो मुनिः, कदाचिदपराह्णे विहारकारणास्सकाले प्रतिलेखना कृता गुर्वाज्ञया श्रमणैः स्थितौ च पुनः कालेऽपि कृता सोमिलवर्णैः सर्वैः, गुरुभिनोंदितः सोमिलः प्राह किं कारणं पुनः प्रतिलेखनाकरणस्य ?, इदानीमेव किमुपधौ सर्पाः समुत्पन्नाः ?' । एवं सोइण्डभाषिणं तं शिक्षयितुं प्रातः प्रतिलेखनावसरे शासनदेवतयोपधिमध्ये सर्पा निष्कासिताः, तान् ष्ड्ट्वा भीतस्सोमिलो नंष्ट्राऽगात् गुर्वन्तिके, गुरुभिरुक्तं यत्चया सोहण्ठं जल्पितं तस्मादिदं जावं, अत एवं न वक्तव्यं यतः प्रतिलेखनायां महती कर्मनिर्जरा भवति । ततः सोमिल आदाननिक्षेपणासमिती प्रतिलेखनायां च सदाऽप्रमत्तो जातः ४ । 5 आचार्यैस्तं प्रत्युक्तं शुलक ! निशायामुचारप्रवणपरिष्ठापनाई भूप्रति लेखनरूपाणि स्थण्डिलानि कुरु । तेनोकं किं तत्रोष्ट्राः समुपविष्टाः सन्ति ? आचार्यास्तूष्णीं स्थिताः, निशायां प्रस्रवणं परिष्ठापयन्तं तमशिक्षयदुष्ट्ररूपं विकुर्व्य पादप्रहारैः शासन देवता, ततो गुरूपदेशेन निशलोऽभूत्स पारिष्ठापनिकासमिती ५ | For Private And Personal Use Only सूत्रे ५३-५४ १९ सामाचार्या अन ऽऽदानानादाने समित्यादि दृष्टान्ताश्च ॥ १९८ ॥

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435