________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा कल्पार्थबोधिन्याः व्या० ९
॥१९८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मियासणियस्स आयाधियस्स समियस्स अभिक्खणं २ पडिलेहणासीलस्स पमजणासीलस्स तहा तहा णं संजमे सुआराहप भवइ ॥ (१९) । अभीक्ष्णं २ प्रतिलेखनाशीलस्य प्रमार्जनाशीलस्य च साधोस्तथातथाप्रकारेण संयमः सुखाराध्यो भवति । तत्रेर्यायां वरदत्तो मुनिर्भाषासमितौ सङ्गतः * श्रमणः, एषणायां वसुदेवपूर्व भवजीवो नन्दिषेणो मुनिः +, आदाननिक्षेपादौ प्रतिलेखनायां च सोमिलो मुनिः +, उच्चारादिपारिष्ठापनिकायां सुव्रताचार्यशिष्यः क्षुल्लको
> स हि कदाचिदिन्द्रेण प्रशंसितः, ततः सञ्जातामर्षेण मिथ्यादृष्टिसुरेणागत्य हस्तिरूपं विकुन्यं शुण्डया मुनिं गृहीत्वा नभसि उल्लालितोऽभश्च भूमौ सूक्ष्मा * भिगृहीतामण्डूक्यो विकुर्विताः, मुनिना चाधः पतता चिन्तितं सखेदं 'अहो मम देहेनैता वराकीमण्डूक्यो विनाशमाप्स्यन्ती'ति तन्मनोवृत्तिं विज्ञाय देवेन क्षामितः । * स च शत्रुरुद्धान्नगरान्निर्गच्छन् शत्रुसैनिकैर्धृतः पृष्टश्च 'नगरान्तः कीदृशं सैम्यस्य बलाबलं ?' इति, मुनिराह - 'यौ कर्णौ शृणुतस्तौ न वदतः न च पश्यतः, ये नेत्रे पश्यतस्ते न वदतो न शृणुतश्च, या च रसना वदति सा न पश्यति न शृणोति च' । पुनः पुनरेवमेव जल्पन् 'पाठग्रहिल इति कृत्वा मुक्तस्तैः २ । + स हि ग्लानवैयावृत्याभिग्रही नित्यषष्ठभक्तिकः, शक्रप्रशंसया सञ्जातामर्षेण मिथ्यादृक्सुरेणातीसारिसाधुविकुर्वणां विधाय क्षुल्लकसा धुरूपेण वैयावृत्त्यनिमित्तमभ्यर्थितो नन्दिषेणस्तस्य देहशुद्धार्थ जलविहरणाय गतो गृहस्थगेहे, तत्र च विहिता सुरेणानेषणा, कथञ्चित्सुरस्यासावधानत्वे प्राप्तं शुद्धजलं विहृत्य गतो ग्लानान्तिके, देहशुद्धिकरणपूर्वकं तं स्कन्धे समारोप्य चलितस्ततः, खरण्टितमशुचिना तेनाऽखिलमपि देहं तस्य तथाप्यविचलितचित्तः स क्षामितः सुरेण ३ ।
भिगृहीतशय्यासन* कत्वादिना
+ क्वापि गच्छे सोमिलो मुनिः, कदाचिदपराह्णे विहारकारणास्सकाले प्रतिलेखना कृता गुर्वाज्ञया श्रमणैः स्थितौ च पुनः कालेऽपि कृता सोमिलवर्णैः सर्वैः, गुरुभिनोंदितः सोमिलः प्राह किं कारणं पुनः प्रतिलेखनाकरणस्य ?, इदानीमेव किमुपधौ सर्पाः समुत्पन्नाः ?' । एवं सोइण्डभाषिणं तं शिक्षयितुं प्रातः प्रतिलेखनावसरे शासनदेवतयोपधिमध्ये सर्पा निष्कासिताः, तान् ष्ड्ट्वा भीतस्सोमिलो नंष्ट्राऽगात् गुर्वन्तिके, गुरुभिरुक्तं यत्चया सोहण्ठं जल्पितं तस्मादिदं जावं, अत एवं न वक्तव्यं यतः प्रतिलेखनायां महती कर्मनिर्जरा भवति । ततः सोमिल आदाननिक्षेपणासमिती प्रतिलेखनायां च सदाऽप्रमत्तो जातः ४ ।
5 आचार्यैस्तं प्रत्युक्तं शुलक ! निशायामुचारप्रवणपरिष्ठापनाई भूप्रति लेखनरूपाणि स्थण्डिलानि कुरु । तेनोकं किं तत्रोष्ट्राः समुपविष्टाः सन्ति ? आचार्यास्तूष्णीं स्थिताः, निशायां प्रस्रवणं परिष्ठापयन्तं तमशिक्षयदुष्ट्ररूपं विकुर्व्य पादप्रहारैः शासन देवता, ततो गुरूपदेशेन निशलोऽभूत्स पारिष्ठापनिकासमिती ५ |
For Private And Personal Use Only
सूत्रे ५३-५४
१९ सामाचार्या अन
ऽऽदानानादाने समित्यादि
दृष्टान्ताश्च ॥ १९८ ॥