________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिजासणियस्स अणुच्चाकूइयस्स अणटाबंधियस्स अमियासणिअस्स अणातावियस्स असमियस्स अभिक्खणं २ अपडिलेहणासीलस्स अपमजणासीलस्स तहा तहा णं संजमे दुराराहए भवइ ॥५३॥ अणादाणमेयं, अभिग्गहियसिजासणियस्स उच्चाकूइअस्स अट्ठावंधियस्स शयने उपवेशने च कुन्थ्वादिजीवविराधनोत्पत्तेः। 'आदानं ग्रहणकारणं कर्मणां दोषाणां वा एतद्' अनभिगृहीतशय्यासनिकत्वं । तदेव द्रढयति-अनभिगृहीतशय्यासनिकस्य 'अनुच्चाकुचिकस्य हस्तादेन्यूनोचसपरिस्पन्दशय्याकस्य, अनर्थकबन्धिनः-निरर्थकं पक्षान्त एकवारोपरि द्वौ त्रीश्चतुरो वा वारान् कम्बासु बन्धान ददाति, चतुरुपरि बहूनि अडकानि वा बध्नाति, तथा च स्वाध्यायविधातादयो दोषाः, यदि तावदेकानिकं चम्पकादिपर्ट लभ्यते तदा तदेव ग्राह्य, बन्धनादिपलिमन्थरहितत्वात् ४, तथा 'अमितासनिकस्य' अनियमितासनस्य,x पुन:पुनः स्थानात्स्थानान्तरं गच्छतो हि जीववधः स्यात्, यद्वा अनेकासनसेवमानस्य, 'अनातापिनः' संस्तारकादीनामातपेऽदातुः 'असमितस्य' इादिष्वनुपयुक्तस्य 'अभीक्ष्णं २ वारंवारं अप्रतिलेखनाशीलस्य दृष्ट्या, अप्रमार्जनाशीलस्य रजोहरणादिना, तथातथाप्रकारेणायतनावर्तिनः साधोः संयमो दुराराध्यो भवति।
५४-अनादानं कर्मणां दोषाणां वा एतदभिगृहीतशय्यासनिकत्वादिकं,तदेव स्पष्टयति-अभिगृहीतशय्यासनिकस्य 'उच्चाकुचिकस्य' हस्तादियावदुच्चापरिस्पन्दशय्याकस्य, 'अर्थवन्धिनः' पक्षान्तः सकृदेव पट्टकादिबन्धकारिणः मितासनिकस्य 'आतापिनः' वस्त्रादेरातपे दातुः 'समितस्य'इर्यादिषु मनआदिगुप्तिषु च सम्यगुपयुक्तस्य
x अलब्धे च तस्मिन् द्वित्रिपट्टात्मकमपि तथाविधं प्राचं, यस्मिन्पक्षान्तचित्रिवेलातोऽधिकबन्धनदानस्य नावश्यकता भवेत् ।
For Private And Personal Use Only