________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासावासं पजोसवियाणं कप्पइ निग्गंथाण वा निग्गंधीण वा तओ उच्चार-पासवणभूमीओ पडिलेहित्तए, न तहा हेमंतगिम्हासु दृष्टान्तः। एवं गुप्तित्रिकेऽप्युदाहरणानि, यथा मनोगुप्तौ कुङ्कणदेशीयो वृद्धो मुनिर्यस्योदन्तः प्राक्पीठिकायां ऋजुजडानां वर्णके प्रोक्तः, वचनगुप्तौ गुणदत्तः, कायगुप्तौ च अर्हन्नको + मुनिदृष्टान्तः । इत्येकोनविंशी सामाचारी ॥
अथोच्चार-प्रस्रवणभूमिप्रतिलेखनरूपां विंशतितमों सामाचारीमाह६५-वर्षावासं पर्युषितानां कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा तिस्रः उच्चार-प्रस्रवणभूमयः प्रतिलेखितुं अनधिसहिष्णोस्तिस्रोऽन्तः, अधिसहिष्णोश्च बहिस्तिस्रः, दूरव्याघाते मध्या तव्याघाते चासन्नेति आसन्नमध्यदूरभेदात्रिधा भूमिः प्रतिलेखितव्येति हृदयम् । न तथा हेमन्त-ग्रीष्मयोर्यथा वर्षासु । तत्कुतो हेतोः ?* इति पृष्टे गुरुराह-वर्षासु "उस्सणं"ति प्रायेण 'प्राणाः' शखनकेन्द्रगोपक्रम्यादयस्तृणानि-प्रतीतानि 'बीजानि'
x स हि श्रीपुरवास्तव्यधनवतीसुतः, स्वजनवन्दापनाय गच्छन् पथि चौरैर्घतो 'जन्याया वयं न ज्ञाप्याः' इति वचनं च लात्वा मुक्तो गतः स्वपुरं, वन्दाप्य समनं स्वजनवर्ग तयैव जन्यया सह पश्चाद्वलितस्तस्मिन्नेव स्थाने समागतः, उत्थिताश्चौराः, मुषिता मुनिजनन्यादयस्सर्वेऽपि जन्याजनाः, ततो मुनिं दृष्ट्वा र चौरैरुक्तं-स एवैष साधुयोऽस्माभिर्जन्याज्ञापनाय निषिद्धोऽभूत् । श्रुत्वा चैतद्वचनं मुनिजनन्याश्चित्ते महदुःखमभूत् , यदुत-पुत्रेणाऽप्यनेन साधुना जानताऽपि | चौरा अस्माकं न ज्ञापिताः, अतो मरणायोद्यतां तां 'इयं साधुजननी' इति ज्ञात्वा चौरैस्सर्व धनादिकं प्रत्यर्पितं प्रशंसितश्च साधुः ।। ___+ स च बिहरन् वापि वाहलकं (क्षुदं जलप्रवाह) प्राप्याचिन्तयत् । यदुत-जलान्तः पादप्रक्षेपेऽप्कायविराधना भविष्यति, ततोऽन्यजनैः कूर्दनेनो
छच्चयमानं दृष्ट्वा सोऽपि कूर्दयित्वा परतटे गन्तुमुद्यतस्तदा जिनाज्ञाभञ्जकत्वाच्छासनदेवतया पादयोरन्तरे लकुटी प्रक्षिप्य भूमौ पातितो भनपादश्च विहितः। ततः Fi पुनस्तयैव देवतया 'जलान्तः पादः प्रक्षेप्यः, परं नैवं विधेय'मिति शिक्षयित्वा सजपादो विहितः । सोऽपि मिथ्यादुष्कृतदानपूर्वकं कायगुप्तौ स्थिरो जातः ३।।
पर्यु.क. ३४
For Private And Personal Use Only