Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 370
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir lilli XOXOXOXOXOXOXOXOXOXOXoxo प्रतीताः” इति श्रीमद्धरिभद्रसूरिपुरन्दराः, तथा “सट्ठीए अइयाए, हवइ हु अधिमासगो जुगद्धम्मि। बावीसे पचसए, हवइ शबीओ जुगंतम्मि ॥१॥ वृत्तिः-एकस्मिन् युगे-प्राग्न्यावर्णितस्वरूपे पक्षाणां षष्टावतीतायां, षष्टिसङ्ख्येषु पक्षेष्वतिक्रान्तेol वित्यर्थः, एतस्मिन्नवसरे युगाप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासकश्चान्द्रे द्वाविंशत्यधिके पर्वशते पक्षशतेऽतिक्रान्ते युगस्यान्ते-युगस्य पर्यवसाने भवति" इति ज्योतिष्करण्डकमूले वृत्तावपि च । एतत्प्रभृतिषु सर्वेष्वपि शास्त्रेषु | द्वितीय एव मासोऽधिकत्वेन निरूपितस्तीर्थकृद्गणधरादिभिः । उचितकालो-मार्गशीर्षानन्तरभावी प्रथमः पौषः ज्येष्ठानन्तरभावी प्रथम आषाढो वा, तस्मात्समधिक-उपरिवर्ती, तथा पक्षाणां षष्टाविंशत्यधिकशतस्य चातीतेषु, न त्वन्तरैव, अधिकमाससम्भवस्य प्रोक्तत्वात् ।। नहि प्रथम एव पौष आपाढे वा उचितकालात्समधिकत्वं पक्षाणां षष्ट्या द्वाविंशत्यधिकाच्छताच्चानन्तरभावित्वं वा सञ्जाघटीति, पक्षाणां षष्टाविंशत्यधिकस्य शतस्य च तत्रैव पूर्णभिवनात् । किञ्च-मार्गशीर्षानन्तरमागतः पौषो ज्येष्ठानन्तरमागतश्चाषाढ एव यद्यधिको भवेत्तदा | तु सर्वेऽपि मासा अधिका भवेयुभवन्मते, प्रतिमासानां प्रतिमासानन्तरमेव भावित्वात् । अपि च यदा “अहिगा संवच्छराय कालम्मि"| इति दशवैकालिकनियुक्तिपाठात्तथा "अधिकाः संवत्सराश्च षष्ट्यब्दाद्यपेक्षया 'काल' इति कालचूडा" इति तस्यैव हारिभद्रीयवृत्तिपाठाच्च वर्षाणां षष्टेरनन्तरं योऽधिकः संवत्सरो भवति तस्मिंस्तु सर्वथैव पर्युषणाया अकरणमेव स्वीकर्तव्यं स्याद्भवताम् । | ननु वर्षावग्रहस्य मध्यमत्वं पञ्चाशदिनलक्षणानियतावग्रहमध्यात्पञ्चपञ्चदिनवृद्ध्या हान्या वा स्यात् , न पुनः पर्युषणानन्तरमपि दिनवृद्ध्या, तथा च कार्तिकचातुर्मासकानयत्यं स्यादिति चेत् ?, अहो ते वैदग्ध्यं गुरुपादमूलसेवित्वं च !!, यतः केन शिष्टं पर्युषणानन्तरमपि वर्षावग्रहस्य मध्यमत्वं, न केनाप्येवं प्रतिपाद्यते, परं संवत्सरप्रतिक्रान्त्यनन्तरं दिनशतात्मको गृहिज्ञातपर्युषणावग्रहो नैव भवतीत्यपि न केनापि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435