Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 382
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir X गमिकत्वप्रलपनं कल्पकिरणावलीकारस्य शक्रेण स्वश्रेयसे नैगमेषीद्वारा कारिते देवानन्दाकुक्षितस्त्रिशलाकुक्षौ गर्भतया सङ्कामणलक्षणे श्रीवीरगर्भापहारेऽकल्याणकभूतत्वातिनिन्द्यत्वाशुभत्वादिवावत्तिथिवृद्धौ च सम्पूर्णाहोरात्रभोग्यप्रथमतिथावपर्वत्वसङ्कल्पनात्मकपापोपदेशवशतुदश्यादिक्षये त्रयोदश्यां, चतुर्दशीवृद्धावाद्यां चतुर्दशी सम्पूर्णभोगां विहाय द्वितीयचतुर्दश्यां पूर्णिमाऽमावास्ययोश्च वृद्धौ ग्रहणान्वितयोराद्यपूर्णिमाऽमावास्ययोः पाक्षिकादिप्रतिक्रमणवादवञ्चागमाभिप्रायानभिज्ञत्वव्यञ्जकमेव । नहि वर्णान्तरादिप्राप्तत्वेन प्रासुकत्वं प्रासुकत्वेन वा वर्णान्तरादिप्राप्तत्वं व्यभिचरति । किन-चेदुष्णोदकपरमेव निश्चितं व्याख्यानं शुद्धविकटशब्दस्याभविष्यत्तर्हि विकृष्टभोजिप्रसङ्गे "उसिण वियडे" इति विभिन्नं शब्दं कथं प्रायुक्ष्यन् ? श्रीभद्रबाहुखामिपादाः। किञ्च-एवमागमसिद्धेष्वप्युत्स्वेदिमाशुष्णावसानेषु पानीयेषु प्रत्याख्यान| भङ्गाद्यसहोषमाविष्कृत्य केवलाप्कायारम्भनिष्पन्नं वर्णान्तरादिप्राप्तं शुद्धविकटं तिरस्कृत्य षट्कायोपमर्दनिष्पन्नमुष्णजलमेवोत्सर्गतः पिबन्तः पानीयाहारलाम्पट्याबसेष्वप्यनुकम्पारहिता दीर्घसंसारिणोऽवगन्तव्याः । न चैवंविधस्य वर्णान्तरादिप्राप्तस्य शुद्धविकटस्याल्पकालीनत्वं प्रासुकत्वे शङ्कनीय, उष्णोदकतुल्यमेव वर्णान्तरादिप्राप्तस्य शुद्धविकटस्यापि प्रासुकत्वकालमिति प्रवचनसारोद्धारवृत्त्यादावभिहितत्वात्तथाहि “जायइ सचित्तया से, गिम्हमि पहरपंचगस्सुवरि । चउपहरोवरि सिसिरे, वासासु पुणो तिपहरुवरि ॥ ८८२॥" __ वृत्तिः-'जायते' भवति सचित्तता "से"त्ति तस्य-उष्णोदकस्य प्रासुकजलस्य वा ग्लानाद्यर्थ धृतस्य 'ग्रीष्मे' उष्णकाले 'प्रहरपञ्चकस्योपरि' प्रहरपञ्चकादू, कालस्यातिरूक्षत्वाच्चिरेणैव जीवसंसक्तिसद्भावात् , तथा 'शिशिरे' शीतकाले कालस्य | स्निग्धत्वात्प्रहरचतुष्टयादूई सचित्तता भवति, 'वर्षासु' वर्षाकाले पुनः कालस्यातिस्निग्धत्वात्प्रासुकीभूतमपि जलं भूयः प्रहरत्रयादूई सचित्ती भवति, तदूर्द्धमपि यदि ध्रियते तदा क्षारः प्रक्षेपणीयो येन भूयः सचित्तं न भवतीति” सृतं प्रसङ्गेन । For Private And Personal use only

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435