________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
X गमिकत्वप्रलपनं कल्पकिरणावलीकारस्य शक्रेण स्वश्रेयसे नैगमेषीद्वारा कारिते देवानन्दाकुक्षितस्त्रिशलाकुक्षौ गर्भतया सङ्कामणलक्षणे श्रीवीरगर्भापहारेऽकल्याणकभूतत्वातिनिन्द्यत्वाशुभत्वादिवावत्तिथिवृद्धौ च सम्पूर्णाहोरात्रभोग्यप्रथमतिथावपर्वत्वसङ्कल्पनात्मकपापोपदेशवशतुदश्यादिक्षये त्रयोदश्यां, चतुर्दशीवृद्धावाद्यां चतुर्दशी सम्पूर्णभोगां विहाय द्वितीयचतुर्दश्यां पूर्णिमाऽमावास्ययोश्च वृद्धौ ग्रहणान्वितयोराद्यपूर्णिमाऽमावास्ययोः पाक्षिकादिप्रतिक्रमणवादवञ्चागमाभिप्रायानभिज्ञत्वव्यञ्जकमेव । नहि वर्णान्तरादिप्राप्तत्वेन प्रासुकत्वं प्रासुकत्वेन वा वर्णान्तरादिप्राप्तत्वं व्यभिचरति । किन-चेदुष्णोदकपरमेव निश्चितं व्याख्यानं शुद्धविकटशब्दस्याभविष्यत्तर्हि विकृष्टभोजिप्रसङ्गे "उसिण वियडे" इति विभिन्नं शब्दं कथं प्रायुक्ष्यन् ? श्रीभद्रबाहुखामिपादाः। किञ्च-एवमागमसिद्धेष्वप्युत्स्वेदिमाशुष्णावसानेषु पानीयेषु प्रत्याख्यान| भङ्गाद्यसहोषमाविष्कृत्य केवलाप्कायारम्भनिष्पन्नं वर्णान्तरादिप्राप्तं शुद्धविकटं तिरस्कृत्य षट्कायोपमर्दनिष्पन्नमुष्णजलमेवोत्सर्गतः पिबन्तः पानीयाहारलाम्पट्याबसेष्वप्यनुकम्पारहिता दीर्घसंसारिणोऽवगन्तव्याः । न चैवंविधस्य वर्णान्तरादिप्राप्तस्य शुद्धविकटस्याल्पकालीनत्वं प्रासुकत्वे शङ्कनीय, उष्णोदकतुल्यमेव वर्णान्तरादिप्राप्तस्य शुद्धविकटस्यापि प्रासुकत्वकालमिति प्रवचनसारोद्धारवृत्त्यादावभिहितत्वात्तथाहि
“जायइ सचित्तया से, गिम्हमि पहरपंचगस्सुवरि । चउपहरोवरि सिसिरे, वासासु पुणो तिपहरुवरि ॥ ८८२॥" __ वृत्तिः-'जायते' भवति सचित्तता "से"त्ति तस्य-उष्णोदकस्य प्रासुकजलस्य वा ग्लानाद्यर्थ धृतस्य 'ग्रीष्मे' उष्णकाले 'प्रहरपञ्चकस्योपरि' प्रहरपञ्चकादू, कालस्यातिरूक्षत्वाच्चिरेणैव जीवसंसक्तिसद्भावात् , तथा 'शिशिरे' शीतकाले कालस्य | स्निग्धत्वात्प्रहरचतुष्टयादूई सचित्तता भवति, 'वर्षासु' वर्षाकाले पुनः कालस्यातिस्निग्धत्वात्प्रासुकीभूतमपि जलं भूयः प्रहरत्रयादूई सचित्ती भवति, तदूर्द्धमपि यदि ध्रियते तदा क्षारः प्रक्षेपणीयो येन भूयः सचित्तं न भवतीति” सृतं प्रसङ्गेन ।
For Private And Personal use only