________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा
न चैतानि षष्ठाष्टमादिप्रायोग्यानि पानकानि तत्तत्तपश्चिकीर्षुभिराद्याद्येवोपवासे ग्राह्याणि भवन्ति, किन्तु यथा चतुर्थषष्ठाष्टमादिभक्तिकाय कल्पार्थ- IX प्रोक्ता गोचरकालास्तत्तत्तपःपारणकदिन एव व्यवहर्त्तव्या भवन्ति तथा तत्तत्तपःप्रायोग्यानि पानकान्यपि तत्तत्तपःपूर्तिदिन एव ग्राह्याणि, बोधिन्याःन त्वांगेव । किमुक्तं भवति ?, प्रथम उपवासे चतुर्थप्रायोग्यानि द्वितीय उपवासे षष्ठप्रायोग्यानि तृतीय उपवासेऽष्टमप्रायोग्यानि पानकानि
ग्रहीतव्यानि चतुर्थपञ्चमादिषु चोपवासेषु विकृष्टभक्तिकप्रायोग्यमेकमुष्णोदकं ग्रहीतव्यं, "विकृष्टतपश्चाष्टमादारभ्य भवति" इत्योघ-
| नियुक्तिवृत्तिपाठात्तत्र तत्रैव तत्तत्तपोव्यवहारस्य व्यवहरणार्हत्वात् । ॥१८६॥
ननु प्रथम एव घस्रे प्रत्याख्याते षष्ठाष्टमादिप्रत्याख्याने तत्र तत्तत्तपःप्रायोग्यानि पानकानि कथं न पातव्यानि भवेयुरिति चेत् ? न, प्रथम एव घने षष्ठाष्टमादिप्रत्याख्यानकरणस्यैवानागमिकत्वात् । हारिभद्रीयावश्यकवृत्तिचूर्णि-प्रवचनसारोद्धारवृत्ति-पञ्चाशकवृत्ति-यशोदेवीयप्रत्याख्यानस्वरूपप्रभृतिषु सर्वमान्यप्राचीनशास्त्रेषु यत्र कापि प्रत्याख्यान निरूपणमुपलभ्यते तत्र सर्वत्र “सूरे उग्गए अभत्तटुं पच्चक्खामि"| इत्यायेवोपलभ्यते, नहि कापि "चउत्थभत्तं-छट्ठभत्तं-अट्ठमभत्तं” इत्यादि ।
अन्यच्च युगपत्षष्ठाष्टमादिप्रत्याख्याते प्रथमेऽह्नि चतुर्विधाहारस्य तदन्यदिनेषु च त्रिविधाहारस्य परिहारं चिकीर्षोः षष्ठाष्टमादियुगपत्प्रत्याEN ख्यातुराद्य एव दिने कथं प्रत्याख्यानं भवेत् ?, तथा षष्ठाष्टमादियुगपत्प्रत्याख्यातोपासकः पाण्मासिकतपश्चिन्तनावसरे प्रथमेऽह्नि षष्ठमष्टमं Xवा कत्तुं शक्नोमीत्युक्तौ सत्यां द्वितीयतृतीयाद्यह्नि किं तपः कर्तुं शक्नोमीति ब्रूयात् ? । NI किञ्चैवं युगपत्षष्ठाष्टमादिप्रत्याख्याने कोटिसहितप्रत्याख्यानमपि नाराधितं भवति,द्वितीयतृतीयाद्येषु दिनेषु प्राक्तनस्य द्वित्रादिदिनावधिना गृही
तस्य प्रत्याख्यानस्यासमापनादप्रेतनस्यान्यस्यानारम्भणाञ्च । अभक्तार्थाचाम्लनि विकृतिकैकासनकस्थानान्यतरैः सदृशैर्विसदृशैश्चाप्यहोरात्रिकैरेव
| सूत्रं २५ सामाचार्या शास्त्रोत्तीर्णत्वं युगपत्वष्ठाष्टमादिप्रत्याख्यानग्रहणस्य
X॥१८६॥
For Private And Personal Use Only