________________
Shri Mahavir Jain Aradhana Kendra
पर्यु. क. ३२
Xoxox
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासावासं पज्जो० विगिट्ठभत्तिअस्स भिक्खुस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए, से वि य णं असित्थे नो वि य णं ससित्थे [५] | वासावासं पजोसवियस्स भत्तपडियाइक्खियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए, से वि य णं असित्थे नो चेव णं ससित्थे, से वि य णं परिपूर नो चेवणं अपरिपूए, से वि य णं परिमिए नो चेव णं अपरिमिए, से वि य णं बहुसंपन्ने नो चेवणं अबहुसंपन्ने [६]॥२५॥ (९) i वर्षावासं पर्युषितस्य 'विकृष्टभक्तिकस्य' अष्टमादुपरि तपःकारिणो भिक्षोः कल्पते एकं 'उष्णविकटं' उत्कालितजलं प्रतिग्रहीतुं तदप्यसिक्थं - धान्यकणरहितं नापि च ससिक्थं [ ५ ] | वर्षावासं पर्युषितस्य 'भक्तप्रत्या| ख्यानिनः कृतानशनिनो भिक्षोः कल्पते एकमुष्णविकटं प्रतिग्रहीतुं तदप्यसिक्थं नैव ससिक्थं, तदपि 'परिपूतं' वस्त्रगलितं नैवापरिपूतं, तृणादेर्गले लगनात्, तदपि 'परिमितं' मानोपेतं नैवापरिमितं, अजीर्णादिहेतुत्वात्, तदपि 'बहुसम्पन्नं' किञ्चिन्यूनं नैव 'अबहुसम्पन्नं' अतिन्यूनं, तृषाया अनुपशमात् । इति नवमी सामाचारी । प्रत्याख्यानैर्भवति कोटिसहितं प्रत्याख्यानं, न पुनः केवलैर्देवसिकै रात्रिकैर्वा, तथैव हारिभद्रीयावश्यकवृत्त्यादिष्वभिहितत्वात्तथाहि—
"पट्टवणओ अ दिवसो, पञ्चक्खाणस्स निदुवणओ अ । जहियं समिति दुन्नि वि, तं भण्णइ कोडिसहियं तु ॥ १५७० ॥ व्याख्या- 'प्रस्थापकश्च' प्रारम्भकश्च दिवसः प्रत्याख्यानस्य 'निष्ठापकश्च' समाप्तिदिवसश्च यत्र प्रत्याख्याने "समिति "त्ति | मिलतो द्वावपि पर्यन्तौ तद्भण्यते कोटि सहितमिति गाथासमासार्थः ॥ १५७० ॥ भावैत्थो पुण जत्थ पच्चक्खाणस्स कोणो कोणो य मिलति, कथं ?, गोसे आवस्सए अभत्तट्ठो गहितो, अहोरत्तं अच्छिऊण पच्छा पुणरवि अभत्तङ्कं करेति, बितियस्स पट्टवणा १–भावार्थः पुनर्यत्र प्रत्याख्यानस्य कोणः कोणश्च मिलतः, कथं ?, प्रत्यूषे आवश्यके ऽभक्तार्थो गृहीतः, अहोरात्रं स्थित्वा पश्चात्पुनरप्यभक्तार्थं करोति, द्वितीयस्य प्रस्थापना
For Private And Personal Use Only