________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा
कल्पार्थ
बोधिन्याः
व्या० ९
॥ १८७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासावासं पज्जो० संखाद्द्त्तियस्स भिक्खुस्स कप्पंति पंच दत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स अहवा चत्तारि भोअणस्स * सूत्रं २६ पंच पाणगस्स अहवा पंच भोअणस्स चत्तारि पाणगस्स । तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगाहिआ सिया, कप्पर से तद्दिवसं तेणेव भत्तट्टेणं पज्जोसवित्तए, नो से कप्पर दुच्चंपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तर वा ॥ २६ ॥ (१०) |
अथ दत्तिसङ्ख्यारूपां दशमीं सामाचारीं प्राह
२६-वर्षावासं पर्युषितस्य ‘सङ्ख्यादत्तिकस्य' दत्तिसङ्ख्याकारिणो भिक्षोः कल्पन्ते पञ्च दत्तयो भोजनस्य प्रतिग्रहीतुं पञ्च पानकस्य, अथवा चतस्रो भोजनस्य पञ्च पानकस्य, अथवा पञ्च भोजनस्य चतस्रः पानकस्य । अत्र पञ्चादिकमुपलक्षणं, तेन यथाऽभिग्रहं न्यूनाऽधिका वा वाच्या । तत्र एका दत्तिर्लवणास्वादनमात्रमपि प्रतिगृहीता स्यात्, लवणं किल स्तोकमेव दीयते, तावन्मात्रेऽपि भक्तादौ गृहीते एका दत्तिर्भवतीति भावः । कल्पते तस्य तस्मिन्दिने तेनैव 'भक्तार्थेन' भोजनेन 'पर्युषितुं' स्थातुं न तस्य कल्पते द्वितीयमपि वारं 'गाथापतिकुलं' गृहस्थगृहं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा, अवशिष्टा दत्तयः पानकस्य भोजने पढमस्स निट्ठवणा, एते दोवि कोणा एगट्ठा मिलिता । अट्ठमादिसु दुहतो कोडिसहितं, जो चरिमदिवसो तस्स वि एगा | कोडी | एवं आयंबिल निधीतियएगासणा एगड्डाणगाणि वि । अथवा इमो अण्णो विही- अभत्तट्टं कतं आयंबिलेण पारितं, पुण| रवि अभत्तङ्कं करेति आयंबिलं च । एवं एगासणादीहि वि संजोगो कातबो, णिबीतिगादिसु सबेसु सरिसेसु विसरिसेसु य" इत्यलम् । प्रथमस्य निष्ठापना, एतौ द्वावपि कोणावेकत्र मिलितौ । अष्टमादिषु द्विधातः कोटिसहितं यश्चरमदिवसस्तस्याप्येका कोटी, एवमाचाम्लनिर्विकृति कैकासनै कस्थानान्यपि । अथवाऽयमन्यो विधिः- अभक्तार्थः कृत आचाम्लेन पारयति, पुनरप्यभक्तार्थं करोति आचाम्लं च । एवं एकासनादिभिरपि संयोगः कर्तव्यः, निर्विकृतिकादिषु सर्वेषु सदृशेषु विसदृशेषु च ।
For Private And Personal Use Only
सामाचार्यां दत्त
सङ्ख्या
निरूपिका
दशमी
सामाचारी
॥ १८७ ॥