Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 383
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा न चैतानि षष्ठाष्टमादिप्रायोग्यानि पानकानि तत्तत्तपश्चिकीर्षुभिराद्याद्येवोपवासे ग्राह्याणि भवन्ति, किन्तु यथा चतुर्थषष्ठाष्टमादिभक्तिकाय कल्पार्थ- IX प्रोक्ता गोचरकालास्तत्तत्तपःपारणकदिन एव व्यवहर्त्तव्या भवन्ति तथा तत्तत्तपःप्रायोग्यानि पानकान्यपि तत्तत्तपःपूर्तिदिन एव ग्राह्याणि, बोधिन्याःन त्वांगेव । किमुक्तं भवति ?, प्रथम उपवासे चतुर्थप्रायोग्यानि द्वितीय उपवासे षष्ठप्रायोग्यानि तृतीय उपवासेऽष्टमप्रायोग्यानि पानकानि ग्रहीतव्यानि चतुर्थपञ्चमादिषु चोपवासेषु विकृष्टभक्तिकप्रायोग्यमेकमुष्णोदकं ग्रहीतव्यं, "विकृष्टतपश्चाष्टमादारभ्य भवति" इत्योघ- | नियुक्तिवृत्तिपाठात्तत्र तत्रैव तत्तत्तपोव्यवहारस्य व्यवहरणार्हत्वात् । ॥१८६॥ ननु प्रथम एव घस्रे प्रत्याख्याते षष्ठाष्टमादिप्रत्याख्याने तत्र तत्तत्तपःप्रायोग्यानि पानकानि कथं न पातव्यानि भवेयुरिति चेत् ? न, प्रथम एव घने षष्ठाष्टमादिप्रत्याख्यानकरणस्यैवानागमिकत्वात् । हारिभद्रीयावश्यकवृत्तिचूर्णि-प्रवचनसारोद्धारवृत्ति-पञ्चाशकवृत्ति-यशोदेवीयप्रत्याख्यानस्वरूपप्रभृतिषु सर्वमान्यप्राचीनशास्त्रेषु यत्र कापि प्रत्याख्यान निरूपणमुपलभ्यते तत्र सर्वत्र “सूरे उग्गए अभत्तटुं पच्चक्खामि"| इत्यायेवोपलभ्यते, नहि कापि "चउत्थभत्तं-छट्ठभत्तं-अट्ठमभत्तं” इत्यादि । अन्यच्च युगपत्षष्ठाष्टमादिप्रत्याख्याते प्रथमेऽह्नि चतुर्विधाहारस्य तदन्यदिनेषु च त्रिविधाहारस्य परिहारं चिकीर्षोः षष्ठाष्टमादियुगपत्प्रत्याEN ख्यातुराद्य एव दिने कथं प्रत्याख्यानं भवेत् ?, तथा षष्ठाष्टमादियुगपत्प्रत्याख्यातोपासकः पाण्मासिकतपश्चिन्तनावसरे प्रथमेऽह्नि षष्ठमष्टमं Xवा कत्तुं शक्नोमीत्युक्तौ सत्यां द्वितीयतृतीयाद्यह्नि किं तपः कर्तुं शक्नोमीति ब्रूयात् ? । NI किञ्चैवं युगपत्षष्ठाष्टमादिप्रत्याख्याने कोटिसहितप्रत्याख्यानमपि नाराधितं भवति,द्वितीयतृतीयाद्येषु दिनेषु प्राक्तनस्य द्वित्रादिदिनावधिना गृही तस्य प्रत्याख्यानस्यासमापनादप्रेतनस्यान्यस्यानारम्भणाञ्च । अभक्तार्थाचाम्लनि विकृतिकैकासनकस्थानान्यतरैः सदृशैर्विसदृशैश्चाप्यहोरात्रिकैरेव | सूत्रं २५ सामाचार्या शास्त्रोत्तीर्णत्वं युगपत्वष्ठाष्टमादिप्रत्याख्यानग्रहणस्य X॥१८६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435