________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
lilli
XOXOXOXOXOXOXOXOXOXOXoxo
प्रतीताः” इति श्रीमद्धरिभद्रसूरिपुरन्दराः, तथा “सट्ठीए अइयाए, हवइ हु अधिमासगो जुगद्धम्मि। बावीसे पचसए, हवइ शबीओ जुगंतम्मि ॥१॥ वृत्तिः-एकस्मिन् युगे-प्राग्न्यावर्णितस्वरूपे पक्षाणां षष्टावतीतायां, षष्टिसङ्ख्येषु पक्षेष्वतिक्रान्तेol वित्यर्थः, एतस्मिन्नवसरे युगाप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासकश्चान्द्रे द्वाविंशत्यधिके पर्वशते
पक्षशतेऽतिक्रान्ते युगस्यान्ते-युगस्य पर्यवसाने भवति" इति ज्योतिष्करण्डकमूले वृत्तावपि च । एतत्प्रभृतिषु सर्वेष्वपि शास्त्रेषु | द्वितीय एव मासोऽधिकत्वेन निरूपितस्तीर्थकृद्गणधरादिभिः । उचितकालो-मार्गशीर्षानन्तरभावी प्रथमः पौषः ज्येष्ठानन्तरभावी प्रथम आषाढो वा, तस्मात्समधिक-उपरिवर्ती, तथा पक्षाणां षष्टाविंशत्यधिकशतस्य चातीतेषु, न त्वन्तरैव, अधिकमाससम्भवस्य प्रोक्तत्वात् ।। नहि प्रथम एव पौष आपाढे वा उचितकालात्समधिकत्वं पक्षाणां षष्ट्या द्वाविंशत्यधिकाच्छताच्चानन्तरभावित्वं वा सञ्जाघटीति, पक्षाणां षष्टाविंशत्यधिकस्य शतस्य च तत्रैव पूर्णभिवनात् । किञ्च-मार्गशीर्षानन्तरमागतः पौषो ज्येष्ठानन्तरमागतश्चाषाढ एव यद्यधिको भवेत्तदा | तु सर्वेऽपि मासा अधिका भवेयुभवन्मते, प्रतिमासानां प्रतिमासानन्तरमेव भावित्वात् । अपि च यदा “अहिगा संवच्छराय कालम्मि"| इति दशवैकालिकनियुक्तिपाठात्तथा "अधिकाः संवत्सराश्च षष्ट्यब्दाद्यपेक्षया 'काल' इति कालचूडा" इति तस्यैव हारिभद्रीयवृत्तिपाठाच्च वर्षाणां षष्टेरनन्तरं योऽधिकः संवत्सरो भवति तस्मिंस्तु सर्वथैव पर्युषणाया अकरणमेव स्वीकर्तव्यं स्याद्भवताम् । | ननु वर्षावग्रहस्य मध्यमत्वं पञ्चाशदिनलक्षणानियतावग्रहमध्यात्पञ्चपञ्चदिनवृद्ध्या हान्या वा स्यात् , न पुनः पर्युषणानन्तरमपि दिनवृद्ध्या, तथा च कार्तिकचातुर्मासकानयत्यं स्यादिति चेत् ?, अहो ते वैदग्ध्यं गुरुपादमूलसेवित्वं च !!, यतः केन शिष्टं पर्युषणानन्तरमपि वर्षावग्रहस्य मध्यमत्वं, न केनाप्येवं प्रतिपाद्यते, परं संवत्सरप्रतिक्रान्त्यनन्तरं दिनशतात्मको गृहिज्ञातपर्युषणावग्रहो नैव भवतीत्यपि न केनापि
For Private And Personal Use Only