________________
Shri Mahavir Jain Aradhana Kendra
www.kobefrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा०
काप्यागमे दृष्टं श्रुतं वा, प्रत्युत कल्पनियुक्ति-निशीथचूर्णि-बृहत्कल्पचूर्णिप्रभृतिसर्वमान्यप्राचीनशास्त्रेषु चान्द्रे वर्षे सप्ततिदिनानाममिवर्द्धिते तु कल्पार्थ
1 शतदिनानां पाश्चात्यानामवशिष्टत्वं सुस्पष्टमेव प्रतीयते गुरुपादमूलसे विनामागमविदाम् । बोधिन्याः
2 अनेनैतदपि स्फुटं ज्ञापितं यद्गृहिज्ञातपर्युषणानन्तरं चान्द्रे वर्षे सप्ततिदिनलक्षणोऽभिवर्द्धिते च दिनशतात्मक औत्सर्गिको वर्षावग्रहः सांवत्सव्या० ९ रिकप्रतिक्रमणादिकृत्यविशिष्टाया गृहिज्ञातपर्युषणाया भवति, "एत्थ अधिमासगो चेव मासो गणिजति, सो वीसाए समं सवीसतिरातो ॥१८॥
मासो भण्णति चेव" इति बृहत्कल्पचूादिशास्त्रप्रमाणः पौर्वात्यायां दिनविंशत्यामधिकमासप्रक्षेपेण दिनपञ्चाशत्याः परिपूरितत्वात् । XI अन्यच्च-"अंतरा वि य से कप्पइ, नो से कप्पइ तं रयणि उवाइणावित्तए" इति कल्पसिद्धान्तप्रमाणेन यथा पौर्वात्यानां पञ्चा
शदिनानामनुल्लकनं प्रोक्तं न तथा पाश्चात्यानां सप्ततिदिनानामनुल्लङ्घनं समवायाङ्गेऽन्यत्र वा कुत्राप्यागमे प्रोक्तं, ततः कथं निश्चीयते ? यत्सांवत्सरिकप्रतिक्रमणादिकृत्यविशिष्टगृहिज्ञातपर्युषणानन्तरं सप्ततिदिनेभ्योऽधिको वर्षावग्रहो नैव रक्षणीय इति । __यस्त्वेवं पाश्चात्येऽवग्रहे वर्द्धिते कार्तिकचातुर्मासकानैयत्यं प्रलपति स हि यक्षावेशोज्झितवसनोऽप्यलङ्कृतं पुरुषं प्रत्युपहसन्निवावगन्तव्यः, कथमन्यथा खपूर्वजैराये कार्तिके समाचीर्णमिति स्वास्येनैव स्वीकुर्वन्नपि स्वयं पुनर्द्वितीये कार्तिके प्रतिक्रामन्नपि चेत्थं प्रलापमकरिष्यत् ? । एवं तु कार्तिकचातुर्मासकानयत्यं न कथमपि भवितुमर्हति, परं कार्त्तिकवृद्धौ द्वितीये कार्त्तिके सांवत्सरिकप्रतिक्रान्तिविधायकानां सुदुर्निवार एव जिनाज्ञायाः खपूर्वजपरम्परायाश्च विलोपप्रसङ्गः, जिनाज्ञया चतुर्मासप्रमाणतैव कार्तिकचातुर्मासकस्य नियमितत्वात् । ___ नन्वेवं तर्हि श्रावणाद्यन्यतरवृद्धावाश्विन एव चातुर्मासकं प्रतिक्रान्तव्यं स्यादिति चेत् ? न, तस्य कार्तिकमासप्रतिबद्धत्वात् । न चाये कार्तिके कार्तिकत्वाभावः । प्रतिक्रान्तं च भाद्रविकपूर्वजैः श्रीसोमप्रभसूरिभिराये कार्तिके चातुर्मासक, पश्यतां
CO-KOKeXOXOXOXOXOXOXOXOXOX
सूत्रं ८ पर्युषणासामाचार्या पञ्चाशद्दिनानामिव नानुल्लङ्घनीयत्वं सप्तति
दिनानाम्
॥१८॥
For Private And Personal use only