________________
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
XXXOXOXXXXX****
वासावासं० कप्पइ निग्गंधाण वा निग्गंधीण वा सवओसमंता सक्कोसंजोयणं उग्गहं ओपिण्हिताणं चिट्ठिउं अहालंदमवि उग्गहे ९(२) अथ वर्षायामवग्रहमानलक्षणा द्वितीया सामाचारी भण्यते९-'वर्षावासं' चतुर्मासकं 'पर्युषितानां स्थितानां कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा, 'सर्वतः' चतसृषु, गजेन्द्रपदादिगिरिमेखलोपाश्रये ऊर्ध्वाधोमेलनात्षट्सु च दिक्षु 'समन्तात् विदिक्षु च सक्रोशं योजनं गमनागमनापेक्षया, केवलं गमने सार्द्ध क्रोशद्वयं 'अवग्रह मर्यादा 'अवगृह्य' गृहीत्वा, अत्यव्ययं, 'लन्द मिति कालस्याख्या, तत्रोदकाः करो यावता कालेन शुष्यति तावान् कालो जघन्यं लन्दं, पञ्चाहोरात्रश्चोत्कृष्टं तन्मध्ये मध्यमं । तत्र जघन्यमपि लन्दं, अर्थात्स्तोकमपि कालं, आस्तां बहु, अवग्रहमध्य एव, नावग्रहाद्वहिः, स्थातुं कल्पते । अटव्यादिव्याघाते यथासम्भवं त्रिव्येकदिको वाऽवग्रहो भावनीयः। इति द्वितीया सामाचारी ॥
"श्रुतातिशायी पुरि भीमपल्या, वर्षासु चाद्येऽपि हि कार्तिकेऽसौ।"
"अगात्प्रतिक्रम्य विबुद्ध्य भावि-भङ्गं परैकादशसूर्यबुद्धम् ॥ १॥” इति मुनिसुन्दरसूरीयगुर्वावल्याम् । "भीमपल्या कार्तिके द्वये प्रथम एव कार्तिके एकादशान्यपक्षीयाचार्याविज्ञातं भाविनं भङ्गं विज्ञाय चातुर्मासी प्रतिकम्य विकृतवन्तः” इति धर्मसागरीयपट्टावलीवृत्तौ । एवमेव क्रियारत्नसमुच्चयप्रशस्तावपि ।
न च वाच्यं 'तत्तु पल्लिभङ्गभयाद्विहित मिति, सञ्जातेऽप्युपद्रवादिकारणे चातुर्मासिकमप्रतिक्रम्य नैव विहर्त्तव्यमिति न काप्यागमे प्रोक्तं, यद्येवं भवेत्तदाऽनागतेऽपि कार्तिके उपद्रवादिसद्भावे चातुर्मासिकं प्रतिक्रम्यैव विहर्त्तव्यमिति सुतरां स्वीकर्त्तव्यं स्यादित्यलम् ।
पर्य.क. ३१
For Private And Personal use only