Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 8
________________ श्रीवृद्धिचद-शतकम् आ. विजयहेमचन्द्रसूरिः नत्वाऽऽत्मभक्त्याऽमल-वीरमूर्ति, वैराग्यकोशाभयराशिदात्रीम् । कुर्वे जनानां पर-मोदनाय, श्री-वृद्धिचन्द्रं शतकं सुरम्यम् ॥ असारेऽसीमसंसारे, प्रासन्मोह-विजृम्भिते । तादृशो नास्ति ना कश्चिद्, यो वृद्धि नाऽभिवाञ्छति ॥१॥ कीटादारभ्य ब्रह्माण्डावधि या प्राणिसन्ततिः । सर्वस्याः कामना वृद्धौ, महारम्भेण दृश्यते ॥२॥ कीर्तिवृद्धौ च केषाञ्चित्, केषाञ्चिन्मानवर्द्धने । हर्म्यवृद्धौ च केषाञ्चित्, समेषामर्थवर्द्धने ॥३॥ सुतारामगवादीनां, धान्यानामपि वर्द्धने । अशनाम्बरवृद्धौ च, जायते भुवि कामना ॥४॥ तस्माद् यातं महाभागाः, सर्वे वै वृद्धि-कामुकाः । वृद्ध्यर्थं समुखं प्राणानर्पयन्तीह मानवाः ।।५।। राजद्वारे राजकार्ये, राजमार्ग-निषेवणे । कष्टप्रायेऽपि सर्वेषामीहा तत्राऽभिजायते ॥६॥ केवलं कारणं तत्र, वृद्धिमेकां हि मन्महे । प्रवृत्तिरन्यथा तत्र, न स्यात् कस्याऽपि देहिनः ॥७॥ बुद्धाराद्धान्ततत्त्वज्ञाः, कोविदा अपि रङ्कवत् । वृद्धिहेत्वर्थमिभ्यानां, द्वारि तिष्ठन्ति उत्सुकाः ॥८॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 130