________________
नैषधमहाकाव्यम् यहाँ उत्प्रेक्षा मानी गयी है। रस का अर्थ नवरस भी है और जल भी, सो श्लेष है । जो कथा स्मरणमात्र से पवित्र करती है, वर्णन से तो और भी करेगी इस अर्थान्तर की आपत्ति हो जाने के कारण 'अर्थापत्ति" अलङ्कार है । 'कथं न पवित्रयिष्यति अपितु पवित्रयिष्यत्येव'--काकुवक्रोक्ति ।
अधीतिवोधाचरणप्रचारणैर्दशश्चतस्रः प्रणयन्नुपाधिभिः। चतुर्दशत्वं कृतवान् कुतस्स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम् ।। ४ ।।
जीवातु--अस्य सर्वविद्यापारदर्शित्वमाह-अधीतीति । अयं नल: चतुर्दशसु विद्यासु 'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दशे' त्युक्तास अधीतिरध्ययनं गुरुमुखात् श्रवणमित्यर्थः। बोधः, अर्थावगतिः, आचरणं तदर्थानुष्ठानं, प्रचारणम् अध्यापनं शिष्येभ्यः प्रतिपादनमित्यर्थः, तश्चतुभिः उपाधिभिः विशेषणः आचरणविशेषरित्यर्थः । 'उपाधिर्धर्मचिन्तायां कतवे च विशेषणे' इति विश्वः । चतस्रो दशाः अवस्थाः प्रणयन् कुर्वन्नित्यर्थः, स्वयं चतस्रो दशा यासां तासां भावः चतुर्दशत्वं त्वतलोर्गुणवचनस्ये' ति पुंवद्भावो वक्तव्य, इति स्त्रियाः पुंवद्भावः । 'संज्ञानातिव्यतिरिक्ताश्च गणवचना' इति सम्प्रदायः । चतुर्दशसंख्याकत्वं कुतः कस्मात् कृतवान् न वेधि न जाने इति स्वतः सिद्धस्य स्वयङ्करणं कथं पिष्टपेपणवदिति चतुर्दशानां चतुरावृत्तौ षट्पञ्चाशत्त्वात् कथं चतुर्दशत्वमिति च विरोधाभासद्वयम् । चतुरवस्थत्वमिति तत्सरिहारश्च। तदुक्तम् 'आभासत्वे विरोधस्य विरोधाभास उच्यते' इति ॥ ४॥ ___ अन्वयः--अयं चतुर्दशसु विद्यास अधीतिबोधाचरणप्रचारणः उपाधिभिः चतस्रः दशाः प्रणयन् चतुर्दशत्वं कुतः कृतवान् ( इति ) स्वयं न वेधि ।
हिन्दी--इस राजा नल ने अध्ययन, अर्थज्ञान, आचरण और प्रचार-इन चार प्रकारों से क्यों चौदह विद्याओं को 'चतुर्दशत्व' ही बनाया-चौदह को चौदह ही रहने दिया--यह मैं स्वयं नहीं समझ पाता।
टिप्पणी--राजा नल चारों वेद, षड् वेदांग, मीमांसा, न्याय, धर्मशास्त्र और पुराण-इन मनु प्रतिपादित चौदह विद्याओं ( याज्ञवल्क्य के अनुसार चौदह विद्याएँ हैं--पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदा: स्थानानि