________________
२६
नैषधमहाकाव्यम् मित्यर्थः, किञ्चति चार्थः । उरसः वक्षसः श्रिया लक्ष्म्या का तत्र अरिदुर्गलुण्ठने गोपुरेषु पुरद्वारेषु 'पुरद्वारन्तु गोपुरमि'त्यमरः । स्फुरतां राजतां कवाटानां दुर्द्धर्षाणि च तानि तिरःप्रसारीणि च तेषां भावः तत्ता अप्रधृष्यत्वं तिर्यक्प्रसारित्वञ्चेत्यर्थः । गृहीता ध्र वम् अवलम्बिता किम् ? ध्र वमित्युत्प्रेक्षाव्यञ्जकम् । तदुक्तं दर्पणे 'मन्ये शके ध्रुवं प्रायो नून मित्येवमादयः। उत्प्रेक्षाव्यञ्जकाः शब्दा इव शब्दोऽपि तादृशः' इति । दीर्घबाहुः कवाटवक्षाश्चायमिति भावः ॥ २२ ॥
अन्वया-अमुष्य दोाम् अरिदुर्गलुण्ठने अर्गलदीघंपीनता तत्र उरः श्रिया च गोपुरस्फुरत्कपाटदुर्धर्षतिरः प्रसारिता ध्र वं गृहीता।।
हिन्दी-उसके वाहुयुग्म ने शत्रुओं के दुर्गों को लुण्ठित करते अर्गलों की दीर्घता और स्थूलता और वहीं वक्ष की शोमा ने नगरद्वारों पर छिपते किवाड़ों की दृढ़ता और विशालता का मानो ग्रहण किया था।
टिप्पणी-नल की भुजाएँ लम्बी और पुष्ट थीं-आजानुबाहु था वह, और छाती दृढ़ तथा विशाल वक्षःस्थल था, कवि ने इसी भाव का प्रतिपादन करने के निमित्त यह 'उत्प्रेक्षा' की है। साहित्यविद्याधरीकार ने यहाँ उत्प्रेक्षा और उपमा मानो हैं ॥२२॥ स्वकेलिलेशस्मितनिजितेन्दुनो निजांशदृक्तजितपद्मसम्पदः । अतद्वयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे ॥ २३ ॥
जीवातु-स्वकेलीति । स्वस्य केलिलेशः विलास बिन्दुर्यत् स्मितं मन्दहसितं तेन निन्दितः तिरस्कृतः इन्दुश्चन्द्रः येः तथोक्तस्य स्मितरूपकिरणेन निर्जितशीतांशुमयूखस्येति भावः। निजांशः स्वावयवः यहक् नेत्रं तया तजिता निर्भत्सिता पद्मानां सम्पद् सौभाग्यं येन तथाभूतस्य तन्मुखस्य नलमुखस्य तयोश्चन्द्रपद्मयोः द्वयी तस्या जित्वरं जयशीलं ततोऽधिक मिति यावत् सुन्दरान्तरं नास्ति, यत्र तथाविध चराचरे जगति 'चराचरं स्याज्जगदि'ति विश्वः । प्रतिमा उपमानं न आसीदिति शेषः । अत्र चन्द्रारविन्दजयविशेषणतया मुखस्य निरौपम्यप्रतिपादनात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः। तदुक्तं दर्पणे'हेतोर्वाक्यपदार्थत्वे काव्य लिङ्गं निगद्यते' इति ॥ २३ ॥
अन्वयः--स्वकेलिलेशस्मितनिन्दितेन्दुनः निजांशहक्तजितपद्मसम्पदः तन्मुखस्य अतद्वयीजित्वरसुन्दरान्तरे चराचरे प्रतिमा नास्ति ।