Book Title: Naishadhiya Charitam
Author(s): Harsh Mahakavi, Sanadhya Shastri
Publisher: Krishnadas Academy Varanasi

View full book text
Previous | Next

Page 228
________________ नैषधमहाकाव्यम् जीवातु -- अवघृत्येति । अहमिमान्दमयन्तीं दिवः स्वर्गस्य सम्बन्धिमियोवर्तर्युवतिसमूहैरपि 'गार्भिणं योवनं गण' इत्यमरः । भिक्षादित्वात्समूहार्थे अण्प्रत्ययः, तत्राप्यस्य युवतीति स्त्रीप्रत्ययान्तस्यैव प्रकृतित्वेन तद्ग्रहणात् तत्सामर्थ्यादेव 'भस्याढे तद्धित' इति पुंवद्भाव इति वृत्तिकारः । न सहाधीतवती - मसदृशीं ततोऽप्यधिकसुन्दरी मित्यर्थः । 'नवर्थस्य न शब्दस्य सुप्सुपेति समास इति वामनः । अवधृत्य निश्चित्य विधातुः ब्रह्मणः आशये हृदि अस्याः पतिः कतमो नु कतमो वा वसतीत्यचिन्तयम्, तदैवेति शेषः ॥ ४१ ॥ ३६ अन्वयः -- इमां दिवः यौवतैः अपि सह तु न अधीतवतीम् अवघृत्य विधातुः आशये अस्याः पतिः कतमः वसति- इति अहम् अचिन्तयम् । हिन्दी - यह निश्चय करके कि यह ( दमयन्ती ) स्वर्ग-सुन्दरियों के साथ भी तो पाठ नहीं पढ़ी है ( रूप गुण में स्वर्गं सुन्दरियाँ इसके समान नहीं हैं ) यह सोचने लगा कि विधाता के मन में कौन इसका पति है ? मैं टिप्पणी- भाव यह है कि असदृश सुन्दरी दमयन्ती के अनुरूप कहाँ त्रिलोकी में वर प्राप्त होगा ? प्रतीप अथवा व्यतिरेक अलंकार ॥ ४१ ॥ अनुरूपमिम निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम् । युवसु व्यपनेतुमक्षमस्त्वयि सिद्धान्तथियं न्यवेशयम् ॥ ४२ ॥ जोवा - अनुरूपमिति । यथेदानीमनुरूपं योग्यं त्वां निरूपयन् तस्याः पतित्वेनालोचयन् सर्वेष्वपि युवसु पूर्वपक्षतां दूष्यकोटित्वं व्यपनेतुमक्षमः सन् त्वयि सिद्धान्त घियं न्यवेशयम् । त्वमेवास्याः पतिरिति निरचैषमित्यर्थः । अयमेव विधातुरप्याशय इति भावः ॥ ४२ ॥ अन्वयः - इमम् अनुरूपं निरूपयन् अथ सर्वेषु अपि युवसु पूर्वपक्षतां व्यपनेतुम् अक्षमः त्वयि सिद्धान्तधियं न्यवेशयम् । हिन्दी - इस ( दमयन्ती ) के अनुरूप ( योग्य पति ) का विचार करते हुए सभी अन्य युवकों में पूर्वपक्षता ( अयोग्यरूपता) का निराकरण करने में असमर्थं मैंने आप ( राजा नल ) में सिद्धान्तः बुद्धि ( भैम्यनुरूपता ) का निश्चय किया ।

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284