________________
द्वितीयः सर्गः
टोत्कराः कुलीरसंघाः यस्मिन् सः, हिमवालुकया कर्पूरेण अच्छवालुकः स्वच्छसिकतः यस्याः पुरः आपणो विपणिरेवार्णवः पटु धीरं दध्वान ननाद, 'कपर्दो वराटिके'ति हलायुधः । 'शङ्खः स्यात् कम्बुरस्त्रियामि'त्यमरः । 'सिताभ्रो हिमबालुका', 'स्यात्कुलीरः कर्कटक' इति चामरः ।। ८८ ॥
अन्वयः-बहुकम्बुमणिः वराटिकागणनाटत्करककटोत्करः हिमबालुकया अच्छबालुकः यदापणार्णवः पटु दध्वान ।
हिन्दी--अनेक शंखों, मणि-मुक्तादि से परिपूर्ण, कौड़ियों की गिनती के लिए घूमते हाथ रूप कर्कटसमूह ( गिरगिटों) से व्याप्त, कपूररेणुका द्वारा स्वच्छ बालू से युक्त जिस ( नगरी ) का हाट रूप समुद्र अतिशय गर्जना करता रहता था।
टिप्पणी--कर्म-संकुल कुंडिनपुरी के हाट की तुलना की गयी है गरजते समुद्र से। वहां लहरों का कोलाहल होता है, यहाँ के समुद्रसम शंख-मणि आदि से पूर्ण, कपूर-बालुकामय हाट में लेन-देन में कौड़िया गिनते जनसमूह का कोलाहल है। 'पटुदध्वान'-से जन संकुलता सूचित की गयी है। सांगरूपक अलंकार ॥ ८८॥
यदगारघटाट्टकुट्टिमस्रवदिन्दूपलतुन्दिलापया । मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ॥ ८९॥
जीवात-यदिति । यस्याः नगर्याः अगारघटासु गृहपङ्क्तिषु अट्टानामट्टालिकानां कुट्टिमेषु निबद्धभूमिपु, 'कुट्टिमोऽस्त्री निबद्धा भूरि'त्यमरः । स्रवद्भिरिन्दुसम्पर्कात् स्यन्दमानरिन्दूपलश्चन्द्र कान्तः हेतुभिः तुन्दिलाः प्रवृद्धा आपो यस्याः तया, तुन्दादिभ्य इलच् 'ऋक्पूरि'त्यादिना समासान्तः । अभ्रगङ्गया मन्दाकिन्या, 'मन्दाकिनी वियद्गङ्गे'त्यमरः । चन्द्रोदये चन्द्रोदये प्रतिचन्द्रोदयं वीप्सायामव्ययीभावः । पतिव्रतानामौचिती औचित्यं ब्राह्मणादित्वाद् 'गुणवचने' त्या दिना ष्यअप्रत्ययः, 'षिद्गौरादिभ्यश्चेति ङीष् । स च 'मातरि षिच्चेति पित्त्वादेव सिद्ध मातामहशब्दस्य गौरादिपाठेना नित्यत्वज्ञापनाद्वैकल्पिकः । अत एव वामनः--व्यञः पित्कार्य बहुलमिति स्त्रीनपुंस