________________
नैषधमहाकाव्यम्
जीवातु -- अवघृत्येति । अहमिमान्दमयन्तीं दिवः स्वर्गस्य सम्बन्धिमियोवर्तर्युवतिसमूहैरपि 'गार्भिणं योवनं गण' इत्यमरः । भिक्षादित्वात्समूहार्थे अण्प्रत्ययः, तत्राप्यस्य युवतीति स्त्रीप्रत्ययान्तस्यैव प्रकृतित्वेन तद्ग्रहणात् तत्सामर्थ्यादेव 'भस्याढे तद्धित' इति पुंवद्भाव इति वृत्तिकारः । न सहाधीतवती - मसदृशीं ततोऽप्यधिकसुन्दरी मित्यर्थः । 'नवर्थस्य न शब्दस्य सुप्सुपेति समास इति वामनः । अवधृत्य निश्चित्य विधातुः ब्रह्मणः आशये हृदि अस्याः पतिः कतमो नु कतमो वा वसतीत्यचिन्तयम्, तदैवेति शेषः ॥ ४१ ॥
३६
अन्वयः -- इमां दिवः यौवतैः अपि सह तु न अधीतवतीम् अवघृत्य विधातुः आशये अस्याः पतिः कतमः वसति- इति अहम् अचिन्तयम् ।
हिन्दी - यह निश्चय करके कि यह ( दमयन्ती ) स्वर्ग-सुन्दरियों के साथ भी तो पाठ नहीं पढ़ी है ( रूप गुण में स्वर्गं सुन्दरियाँ इसके समान नहीं हैं ) यह सोचने लगा कि विधाता के मन में कौन इसका पति है ?
मैं
टिप्पणी- भाव यह है कि असदृश सुन्दरी दमयन्ती के अनुरूप कहाँ त्रिलोकी में वर प्राप्त होगा ? प्रतीप अथवा व्यतिरेक अलंकार ॥ ४१ ॥ अनुरूपमिम निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम् । युवसु व्यपनेतुमक्षमस्त्वयि सिद्धान्तथियं न्यवेशयम् ॥ ४२ ॥
जोवा - अनुरूपमिति । यथेदानीमनुरूपं योग्यं त्वां निरूपयन् तस्याः पतित्वेनालोचयन् सर्वेष्वपि युवसु पूर्वपक्षतां दूष्यकोटित्वं व्यपनेतुमक्षमः सन् त्वयि सिद्धान्त घियं न्यवेशयम् । त्वमेवास्याः पतिरिति निरचैषमित्यर्थः । अयमेव विधातुरप्याशय इति भावः ॥ ४२ ॥
अन्वयः - इमम् अनुरूपं निरूपयन् अथ सर्वेषु अपि युवसु पूर्वपक्षतां व्यपनेतुम् अक्षमः त्वयि सिद्धान्तधियं न्यवेशयम् ।
हिन्दी - इस ( दमयन्ती ) के अनुरूप ( योग्य पति ) का विचार करते हुए सभी अन्य युवकों में पूर्वपक्षता ( अयोग्यरूपता) का निराकरण करने में असमर्थं मैंने आप ( राजा नल ) में सिद्धान्तः बुद्धि ( भैम्यनुरूपता ) का निश्चय किया ।