________________
प्रथमः सर्गः
२५
किमस्य रोम्णाङ्कपटेन कोटिभिविधिर्न रेखाभिरजीगणद् गुणान् । न रोमकूपौघमिषाज्जगत्कृता कृताश्च किं दूपणशून्यविन्दवः ? ॥ २१ ॥ ____जीवातु--किमिति । विधिविधाता अस्य नलस्य गुणान् रोम्णां कपटेन व्याजेन कोटिभिः कोटिसंख्याभिः लेखाभिः न अजीगणत् न गणितवान् किम् ? अपितु गणितवानेवेत्यर्थः तथा जगत्कृता. स्रष्टा विधिनेत्यर्थः । रोम्णां कूपाः विवराणि तेषाम् ओघः समूह एव मिषं व्याजः तस्मात् । दूषणानां दोषाणां शून्यस्य अभावस्य बिन्दवः ज्ञापकचिह्नभूता वर्तुलरेखाः न कृताः किम् ? अपि तु कृता एवेत्यर्थः । अस्मिन् गुणा एव सन्ति, न कदाचित् दोषा इति भावः । अत्र रोम्णां रोमकूपाणाञ्च कपटमिषशब्दाभ्याम् अपह्नवे गुणगणनालेखत्वदूषणशून्यबिन्दुत्वयोरुत्प्रेक्षणात सापह्नवोत्प्रेक्षयोः संसृष्टिः ॥ २१ ॥
अन्वयः--विधिः अस्य गुणान् रोम्णां कपटेन कोटिभिः रेखामिः न अजीगणत् किम् ? जगत्कृता रोमकूपमिषात् दुषणशून्यबिन्दवः न कृताः किम् ? ( अपि तु कृता एव )।
हिन्दी--विधाता ने रोओं के बहाने करोड़ों रेखाओं द्वारा क्या इसके गुणों की गणना नहीं की ? अपितु गणना ही की। संसार बनानेवाले ने रोमकूपों के व्याज से क्या दोषाभावसूचक शून्य नहीं बनाये ? अपितु बनाये ।
टिप्पणो-राजा के गुण अनन्त, असंख्य थे, सो विधाता उनकी गिनती में समर्थन हो पाया, अतः सुविधा के लिए उसने नल के शरीर में गणनासूचक रोम बना दिये और दोषों के अमाव की सूचना के निमित्त रोमकूप रूपशून्य बना दिये । यहाँ 'कपट' और 'मिष' शब्दों के प्रयोग द्वारा निषेध सूचित किया गया और अन्य सम्भावना की गयी, अतः अपह्न ति-उपप्रेक्षा की संसृधि है । यह वर्णन सामुद्रिक शास्त्रानुसारी है ॥२१॥
अमुष्य दोामरिदुर्गलुण्ठते ध्रुवं गृहीतागंलदीर्घपोनता। उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिरःप्रसारिता ॥ २२ ॥
जीवात-अमुष्येति । अमुष्य नलस्य दोभ्यां भुजाम्यां कर्तृभ्याम् अरिदुर्गलुण्ठने शत्रुदुर्गभञ्जने अर्गलस्य कपाटविष्कम्भदारुविशेषस्य 'तद्विष्कम्भोऽगेलं न ना' इत्यमरः । दीर्घञ्च पीनञ्च तयोर्भावः दीर्घपीनता आयतपीवरत्व