________________
नैषधमहाकाव्यम् टिप्पणी-धुए की रंग की सिवार में सागर की वाडवाग्नि के धुए की कल्पना, जिससे सर में समुद्र के तुल्य वाडवाग्नि की संभावना । उत्प्रेक्षा ।
प्रकाममादित्यमवाप्य कण्टकैः करम्बितामोदभरं विवण्वती। धृतस्फुटश्रीगृहविग्रहा दिवा सरोजिनी यत्प्रभवाप्सरायिता ।। ११५ ।।
जीवातु-प्रकाममिति । आदित्यं सूर्यमवाप्य प्रकामं कण्टकैः नालगतैः तीक्ष्णाग्ररवयवैः करम्बिता दन्तुरिता, अन्यत्रादित्यमदितिपुत्रमिन्द्रमवाप्य कण्टकः पुलकैः करम्बिता अतएवामोदभरं परिमलसम्पदमानन्दसम्पदं च विवृण्वती प्रकटयन्ती दिवा दिवसे धृतानि स्फुटश्रीगृहाणि पद्मानि यस्य स विग्रहः स्वरूपं यस्याः सा, अन्यत्र दिवा स्वर्गेण स्फुटश्रीगृहमुज्ज्वलशोभास्पदं विग्रहो देहो यस्याः सा स्वर्गलोकवासिनीत्यर्थः। यस्तडागः प्रभवः कारणं यस्याः सा तज्जन्या सरोजिनी पद्मिनी अप्सरायिता अप्सरं इवाचरिता । 'उपमानाद् कर्तुः क्यङ् सलोपश्चेति कर्तरि क्तः, 'ओजसोऽप्सरसो नित्यमि' त्यप्सरसः सकारलोपः । श्लिष्टविशेषणेयमुपमा ॥ ११५ ॥
अन्वयः-यत्प्रभवा सरोजिनी आदित्यम् अवाप्य कण्टकः प्रकामं करम्बिता आमोदभरं विवृण्वती दिवा धृतस्फुटश्रीगृहविग्रहा अप्सरायिता।
हिन्दी-जिस सरोवर में उत्पन्न कमलिनी सूर्य को पाकर कटकाञ्चित हो सुगंध-भार को फैलाती दिन में स्पष्टतः कमलरूप प्राप्त करती जैसे इंद्र को पा रोमांचित हो आनंदातिशय प्रकट करती उज्ज्वल सुन्दर शोमामयी देहधारिणी अप्सरा होती है, वैसी ही प्रतीत होती है।
टिप्पणी-श्लिष्ट शब्दों के प्रयोग से कमलिनी में अप्सरात्व की कल्पना । श्लिष्टोपमा ( मल्लिनाथ ) अथवा श्लेष उपमा अलंकार ( विद्याधर ) ॥११५॥
यदम्बपूरप्रतिबिम्बितायतिर्मरुत्तरङ्ग स्तरलस्तटद्रुमः। निमज्ज्य मैनाकमहीभृतः सतस्ततान पक्षान् धुवतः सपक्षताम् ॥११६ ।।
जीवातु--यदिति । यस्य तडागस्याम्बुपूरे प्रतिबिम्बितायतिः प्रतिफलितायामः मरुत्तरङ्गः वातवीजनस्तरलश्चंचलः तटद्रुमैः निमज्ज्य सतो वर्त