________________
द्वितीयः सर्गः
जीवातु-तथापि किमर्थं पुनरागतन्त्वयेत्यत आह-यदिति । तव यदप्रियमवादिषमवोचम् । प्रियमाधाय प्रियं कृत्वा तदप्रियन्तरोः कृतं स्वकृतमातपसन्तापम् अमृतमुदकम भिवृष्य ‘पयः कीलालममृतमि'त्यमरः । अंशुमानिव नुनुत्सुनॊदितु प्रमाष्टुमिच्छुः, नुद-प्रेरण इत्यस्माद्धातोः सन्नन्तादुप्रत्ययः ।११।
अन्वयः-यत् तव अप्रियम् अवादिषम् तत् प्रियम् आधाय तरोः कृतम् आतपसंज्वरम् अमृतम् अभिवृष्य अंशुमान् इव नुनुत्सुः अस्मि ।
हिन्दी-जो मैंने आपको बुरा-भला कहा, उसका निराकरण मैं आपका प्रिय कार्य करके उसी प्रकार चाहता हूँ जैसे किरणमाली सूर्य वृक्षों पर चूप की ऊष्मा से उन्हें पीडित करने के पश्चात् अमृत जल बरसा कर करता है ।
टिप्पणी-मविष्य में प्रिय करने का द्योतन । विद्याघर के अनुसार दृष्टांतउपमा-परिवृत्ति अलंकार ।। ११ ।।
उपनम्रभयाचितं हितं परिहत्तु न तवापि साम्प्रतम् । करकल्पजनान्तराद्विधेः शुचितः प्रापि स हि प्रतिग्रहः ॥ १२॥
जीवातू-तहि भवन्मोचनं सुकृतमेव मम पर्याप्तम् किं दृष्टोपकारेणेति न वाच्यमित्याह-उपनम्रमिति । अयाचितमप्रार्थितमुपनम्रमुपनतं हितम् इह चामुत्र चोपकारकं तवापि परिहत्तु न साम्प्रतम् युक्तम् । 'अयाचितं हितं ग्राह्यमपि दुष्कृतकर्मण' इति स्मरणादिति भावः । तदपि मादृशात् पृथग्जनात् कथं ग्राह्यमत आह-करेति । हि यस्मात्कारणात् स प्रतिग्रहः करकल्पङ्करस्थानीयमित्यर्थः । ईषदसमाप्तो कल्पप्प्रत्ययः, यज्जनान्तरं स्वयं यस्य तस्माच्छुचेः शुद्धाद्विधेः ब्रह्मणः प्राप्तः न तु मत्त इति भावः। आप्नोतेः कर्मणि लुङ्ग। विधिरेव ते दाता अहं तस्योपकरणमात्रम्, अतो न यात्रालाघवन्तवेति भावः ।
अन्वयः--अयाचितम् उपननं हितं तव अपि परिहत्तुं साम्प्रतं न हि सः प्रतिग्रहः करकल्पजनान्तरात् शुचितः विधेः प्रापि ।
हिन्दी-अप्राथित, उपस्थित प्रिय ( वस्तु ) आप जैसे समर्थ राजा को भी छोड़ना उचित नहीं है, क्योंकि वह दान हस्तस्थानीय ( हाथ जैसे ) अन्य व्यक्ति ( मुझ हंस ) के माध्यम से शुद्ध भाग्य से ही प्राप्त हुआ है।