________________
प्रथमः सर्ग:
१२१
टिप्पणी-करुणा-गलित हो जो धरती मात्र का पालनहार था, वेचारे हंस को कैसे बन्धन में रख सकता था ? अनुप्रास की छटा । दोधक वृत्त, जिसके प्रत्येक चरण में ग्यारह अक्षर होते हैं, तीन भगण ( 1 ) और अंत में दो गुरु-- भमभाः गो' ॥१४३॥ आनन्दजाश्रुभिरनुस्रियमाणमार्गान् प्राक्शोकनिर्गलितनेत्रपयःप्रवाहान् । चक्र स चक्रनिभचक्रमणच्छलेन नीराजनां जनयतां निजबान्धवानाम् ॥
जीवातु-आनन्देति । हंसः चक्रनिभचक्रमणस्य मण्डलाकारभ्रमणस्य छलेन नीराजनाञ्जनयतां कुर्वतां निजबान्धवानां 'बन्धमुक्तं बान्धवा नीराजजयन्ती'ति समाचारः । प्राङ्मोचनात्पूर्वं शोकेन निर्गलिता निःसृताः नेत्रपयः प्रवाहाः बाप्पपूरास्तानानन्दजाश्रुभिरानन्दवाप्परनुस्रियमाणमार्गान् अनुगम्यमानमाश्चिके कृतवान् । अत्र पक्षिणां स्वभावसिद्ध बन्धमुक्त स्वयूथ्यभ्रमणं छलशब्देनापह्य नुत्य तत्र नीराजनात्वारोपादपह्नवभेदः । अत्र चमत्कारित्वान्मङ्गलाचाररूपत्वाच्च सर्वत्र सङ्गीतश्लोकेप्वानन्दशब्दप्रयोगः, यथाह भगवान् भाष्यकार:--'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि विहिता नि शास्त्राणि प्रथन्ते वीरपुरुषाण्यायुप्मत्पुरुषाणि च भवन्ति अध्येतारश्च प्रवक्तारो भवन्ती'ति । वसन्ततिलकावृत्तम् 'उक्ता वसन्ततिलका तभजा जगौ ग' इति लक्षणात् । सर्गान्तत्वाद् वृत्तभेदः, यथाह दण्डी-'सर्गरनतिविस्तीर्णैः श्राव्यःवृत्तः सुसन्धिभिः । सर्वत्र भिन्नसर्गान्त रुपेतं लोकरञ्जनम् ॥' इति ॥ १४४ ।। __अन्वयः-सः चक्रनिभचङक्रमणच्छलेन नीराजनां जनयतां निजबान्धवानां प्राक्शोकनिर्गलित नेत्रपयःप्रवाहान् आनन्दाश्रुभिः अनुस्रियमाणमार्गान् चक्रे ।
हिन्दी--उस ( मुक्त हंस ) ने चक्राकार मंडराने के व्याज से मानो आरती उतारते अपने बांधवों (साथी हंसों) के पहिले शोक के कारण टपकती अश्रुधार को हर्षोत्पन्न नयनजलधार से अनुगमित होती बनाया।
टिप्पणी--साथी के द्वारा-मुक्त होने पर बन्धुजन प्रायः आरती उतारा करते हैं । हंस के बन्धन में पड़जाने से आकाश में (१२७वें श्लोक के अनुसार ) मंडलाकार मँडराती जो हंसमंडली शोक के आंसू गिरा रही थी, वह अब प्रसन्न हो आनन्दाश्रु बहाने लगी, अर्थात् बंधन पर कष्ट पा रही थी,