________________
प्रथमः सर्गः
विवेश गत्वा स विलासकाननं ततः क्षणात् क्षोणिपतिधृतीच्छया। प्रवालरागच्छरितं सुपुप्सया हरिर्घनच्छायमिवाम्भसां निधिम् ॥४॥
जीवातु-विवेशेति । ततः स क्षोणीपतिः क्षणाद्गत्वा घृतीच्छया सन्तोषकाङ्क्षया प्रवालाः पल्लवाः अन्यत्र प्रवालाः विद्रुमाः 'प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लव' इत्यमरः । तेषां रागेणारुण्येन छुरितं रूषितं घनच्छायं सान्द्रानातपमन्यत्र मेघकान्ति 'छाया त्वनातपे कान्तावि'ति विश्वः । विलासकाननं क्रीडावनम् अन्यत्र बवयोरभेदात् बिलासकानां बिलेशयानां सर्पाणाम् आननं प्राणनं सुपुप्सया स्वप्तुमिच्छया हरिविष्णुरम्भसान्निधिम ब्धिनमिव विवेश ॥ ७४ ॥
अन्वयः--ततः सः क्षोणीपतिः गत्वा हरिः इव सुषुप्सया प्रवालरागच्छरितं घनच्छायम् विलासकाननम् अम्भसां निधिः इव (विलासकाननं) घृतीच्छया क्षणात् विवेश ।
हिन्दी-तत्पश्चात् वह पृथ्वीपति जाकर मूंगों की लाली से खचित मेघ की छाया के समान छायावाले ( मेघक्रांति ) विलों के निवासी सों के आवास समुद्र में जैसे हरि ( विष्णु ) शयन की इच्छा से प्रविष्ट हो जाते हैं, अथवा जैसे मुंगे-जैसे लाल किसलयों से सुंदर घनीछायावाले, जलस्थान से युक्त सुंदर वन में सुख से सोने की इच्छा से सिंह घुस जाता है, उसी प्रकार नवपल्लवों की लालिमा से विच्छुरित, घनीछायावाले क्रीडावन में मन बहलाने के लिए क्षण में प्रविष्ट हो गया।
टिप्पणी-राजा नल को सिंह-पराक्रमी और विष्णु के समान समर्थ प्रजापालक संकेतित किया गया है । उपमा और श्लेष ॥७४।।
वनान्तपर्यन्तमुपेत्य सस्पृहं क्रमेण तस्मिन्नवतीर्णदृक्पथे। न्यवत्तदृष्टिप्रकरः पुरौकसामनुव्रजद्बन्धुसमाजबन्धुभिः ॥ ५ ॥
जीवातु-वनान्तेति । अनुव्रजद्बन्धुसमाजबन्धुभिः स्नेहादनुगच्छद्वन्धुसङ्घसदृशैरित्यर्थः । अत एवोपमालङ्कारः । पुरोकसां दृष्टिप्रकरईष्टिसमूहः कर्तृभिर्वनान्तपर्यन्तं काननोपान्तसीमाम् उदकप्रान्तपर्यन्तञ्चति गम्यते, 'चने सलिलकानने' इत्यमरः । सस्पृहं साभिलाषं यथा तथा उपेत्य गत्वा