________________
प्रथमः सर्गः उपस्थित किया है । विद्याधर ने इस पद्य में केवल श्लेष और उपमा अलंकारों का उल्लेख किया है, यों यहाँ शब्दश्लेष, अर्थश्लेष-विशिष्टा उपमा, अध्यवसायमूला प्रतिशयोक्ति और अनुप्रास का संकर है । मल्लिनाथ यही मानते हैं ॥३२॥
नपेऽनुरूपे निजरूपसम्पदां दिदेश तस्मिन् बहुशः श्रुतिं गते । विशिष्य सा भौमनरेन्द्रनन्दना मनोभवा कवशंवदं मनः ॥३३॥
जीवातु-इह विरहिणां चक्षुःप्रीत्यादयो दशावस्थाः सन्ति, तत्र चक्षुः प्रीतिः श्रवणानुरागस्याप्युपलक्षणमतस्तत्पूर्विकां मनःसङ्गाख्यां द्वितीयामवस्थामाह-नृप इत्यादि । सा भीमनरेन्द्रनन्दना दमयन्ती नन्द्यादित्वाल्ल्युप्रत्ययः । निजरूपसम्पदां स्वलावण्यसम्पत्तीनामनुरूपे बहुशः । 'वह्वल्पार्थाच्छस्कारकादन्यतरस्यामि'त्यपादानार्थे शस्प्रत्ययः । श्रुति श्रवणं गते एतेन श्रवणानुराग उक्तः, तस्मिन् नृपे नले मनोभवाज्ञाया एकं वशंवदम् एकस्यैव विधेये शिवभागवतवत् समासः । 'प्रियवशे वदः खच्' 'अरुर्द्विषदि'त्यादिना तस्य मुम् । मनो विशिष्य दिदेश अस्येदमिति निश्चित्यातिससजत्यर्थः, तद्गुणश्रवणात्तदासक्तचित्तासीदित्यर्थः ॥ ३३ ॥ ___ अन्वयः-सा भीमनरेन्द्रनन्दना निजरूपसम्पदाम् अनुरूपे बहुशः श्रुति गते तस्मिन् नपे विशिष्य मनोमवाझंकवशंवदं मनः दिदेश ।
हिन्दी-उस राजा भीम की पुत्री दमयन्ती ने अपनी रूपसम्पत्ति के अनुरूप (योग्य) बहुत बार जिसका रूप-गुण-कीर्तन कान में पड़ चुका था, उस राजा नल में आसक्त कर अपने मन को कामाज्ञा का ही एक मात्र वशवर्ती बना दिया।
टिप्पणी-नल के प्रति दमयन्ती के एकानुराग का द्योतन । अनुप्रास अलंकार । श्रवणजात अनुराग, इसका ही अगले चारों श्लोकों में वर्णन है ।३३।
उपासनामेत्य पितुस्स्म रज्यते दिने दिने सावसरेषु वन्दिनाम् । पठत्सु तेषु प्रति भूपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ॥३४॥
जीवातु-अथास्याः श्रवणानुरागमेव चतुभिर्वर्णयति-उपासनामित्यादि । सा भैमी दिने दिने प्रतिदिनं 'नित्यवीप्सयोरिति वीप्सायां द्विर्भावः । वन्दिनां स्तुतिपाठकानामवसरेषु पितुरुपासनां सेवामेत्य प्राप्य तेषु वन्दिषु भूपतीन् प्रतिभूपतीनुद्दिश्य पठत्सु सत्स्विति शेषः । नलं शृण्वती अलं रज्यते स्म रक्ताऽ