________________
५४
नैषधमहाकाव्यम् टिप्पणी--'भत्सितमत्स्यकेतनः' से यह भी ध्वनित है कि काम नल की शोभा बढ़ाने का काम करनेवाला कर्मचारी हुआ, इस प्रकार नल के कामचिनयुक्त अंग भी उसके कामजयी होने का प्रमाण देने लगे। विद्याधर के अनुसार इसमें उपमा और सहोक्ति है ॥५६॥
अमी ततस्तस्य विभूषितं सितं जवेऽपि मानेऽपि च पौरुषाधिकम् । उपाहरन्नश्वमजस्रचञ्चलैः खुराञ्चलैः क्षोदितमन्दुरोदरम् ॥७॥
जीवात--अमी इति । तत आज्ञापनानन्तरं अमी निदेशकारिणः तस्य विभूषितमलङ्कृतञ्जवेऽपि वेगेऽपि माने प्रमाणेऽपि च पौरुषात् पुरुषगतिवेगात् पुरुषप्रमाणात् चाधिकं 'ऊर्ध्वविस्तृतदोःपाणिनृमाने पौरुषं त्रिषु' इत्यमरः । 'पुरुषहस्तिभ्यामण चे' त्यणप्रत्ययः। अजस्रचञ्चलैश्चटुलस्वभावैः खुराञ्चलैः शफाप्रैः क्षोदितं मन्दुरोदरं चूर्णीकृताश्वशालाभ्यन्तरं 'वाजिशाला तु मन्दुरे'त्यमरः । एतेनोत्तमाश्वलक्षणयुक्तं सितं श्वेतमश्वमुपाहरञ्चानिन्युरित्यर्थः॥५७।। __ अन्वयः-ततः अमी तस्य विभूषितं सितं जने अपि माने अपि च पौरुषाधिकार अजस्रचंचलः खुरांचलः क्षोदितमन्दुरोदरम् अश्वम् उपाहरन् ।
हिन्दी--तत्पश्चात् ये निदेशकारी उस ( नल) के सुसज्जित, श्वेतरंग के वेग में भी और परिमाण ( ऊँचाई ) में भी पुरुष-प्रमाण अथवा बल में अधिक निरन्तर चंचल खुरों की अँगली कोरों से मंदुरा (घुड़साल) के मध्य को दिदीर्ण करनेवाले अश्व को ले आये।
टिप्पणी-इस श्लोक से अगले सात श्लोकों तक अश्व का वर्णन है, जिस पर नल सवार हुए-'कुलक' अर्थात् एक ही भाव से संबद्ध पञ्चाधिक पद्य । वृत्यनुप्रास और छेकानुप्रास' की संसृष्टि ।।५७॥
अथान्तरेणावटुगामिनाऽध्वना निशीथिनीनाथमहस्सहोदरैः । निगालगाद् देवमणेरिवोत्थितैविराजितं केसरकेशरश्मिभिः ॥ ५८॥
जीवातु-अथ सप्तभिः कुलकमाह-अथेत्यादि । अथानयनान्तरं स नलो हयमारुरोहेत्युत्तरेणान्वयः । कथंभूतमान्तरेणाभ्यन्तरेण अवटुगामिना कृकाटिकाख्यमस्तकपृष्ठभाजा 'अवटुर्घाटा कृका टिके'त्यमरः, अध्वना मार्गेण निगालगाद्गलोद्देशात् 'निगालस्तु गलोद्देश' इत्यमरः । देवमणिः आवर्तविशेषः