________________
प्रथमः सर्गः
सितातपत्रं यस्मिन् तादृशं मण्डलं राष्ट्रं यस्य स:' सुशासक वर्णाश्रमव्यवस्थापक संकेतित होता है । 'भू' के समान दमयंती का पति वही हुआ, यह मी व्यंग्य है ।
विग्रह द्वारा नल न्यायी, 'भूजानि' नल ही था, इससे
यहाँ व्यतिरेक और रूपक की संसृष्टि है । 'साहित्य विद्याधरी' के अनुसार यहाँ कथा के सुधावधीरिणी होने से व्यतिरेक है और 'सुवर्णदण्ड - सितच्छत्र' से क्रमशः 'प्रतापावलि कीर्तिमण्डल' विशेषित होने से यथासंख्य है, इस प्रकार व्यतिरेक - यथासंख्य का संकर है ।
पवित्रमत्रातनुते जगद्युगे स्मृता
रसक्षालनयेव तत्कथा । कथं न सा मद्गिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति ॥ ३ ॥ जीवा -- सम्प्रति कविः स्वविनयमाविष्करोति पवित्रमिति । अत्र युगे कलौ इति यावत् । यस्य नलस्य कथा स्मृता स्मृतिपथं नीतेत्यर्थः । सती जगल्लोकं रसक्षालनयेव जलक्षालनयेवेत्युत्प्रेक्षा, 'देहधात्वम्बुपारदा' इति रसपर्थ्याये विश्वः । पवित्रं विशुद्धम् आतनुते करोति, सा कथा आविलां कलुषामपि सदोषामपीति यावत्, स्वसेविनीमेव केवलं स्वकीर्तनपरामेवेति भावः । मद्गिरं मम वाचं कथं न पवित्रयिष्यति ? अपि तु पवित्रां करिष्यत्येवेत्यर्थः । तथा चोक्तं 'कर्कोटकस्य नागस्य दमयंत्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्त्तनं कलिनाशनम् ॥' इति । या स्मृतिमात्रेण शोधनी सा कीर्त्तनात् किमुतेति कैमुत्यन्यायेनार्थान्तरापत्त्या अर्थापत्तिरलङ्कारः । तदुक्तम्- - ' एकस्य वस्तुनो भावाद् यत्र वस्त्वन्यथा भवेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलक्रिया ॥' इति ॥ ३ ॥
अन्वयः -- तत्कथा स्मृता अत्र युगे जगत् पवित्रम् आतनुते, सा आविलाम् अपि स्वसेविनीम् एव मदगिरं रसक्षालनया इव कथं न पवित्रयिष्यति ?
हिन्दी - - वह कथा स्मरण करने पर इस युग में भी संसार को पवित्र कर देती है, वह दोषमयी किन्तु 'स्वकथैकतत्परा'" -- नल की ही कथा कहने में लग्न -- मेरी वाणी को मानो शृङ्गारादि उज्ज्वल रसों से भला क्यों न पवित्र करेगी ?
परिक्षालित करके
टिप्पणी -- इस श्लोक में कवि विनय प्रतिपादित है, जिसकी नल चरित्र के' वर्णन में ही आसक्ति हैं, इसी सम्भावना के कारण 'साहित्यविद्याधरी' में